पृष्ठम्:मृच्छकटिकम्.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
मृच्छकटिके

 विटः—(स्वगतम्) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यगच्छति मूर्खः॥ (प्रकाशम्) वसन्तसेने! वेशवासविरुद्धमभिहितं भवत्या। पश्य,—

तरुणजनसहायश्चिन्त्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव।
वहसि हि धनहार्यं पण्यभूतं शरीरं
सममुपचर भद्रे! सुप्रियं वाप्रियं वा॥३१॥

अपि च,—

वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः
फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा।
ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे
त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज॥३२॥

 वसन्तसेना— गुणो खु अणुराअस्स कारणं, ण उण बलक्कारो । [ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः ।]

 शकारः— भावे भावे ! एशा गब्भदाशी कामदेवाअदणुज्जाणादॊ पहुदि ताह दलिद्दचालुहत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श धलं । जधा तव मम अ हश्तादो ण एशा पलिब्भंशदि तध। कलेदु भावे । [ भाव भाव ! एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति


शीर्षॆणात्मीयाभ्यां पादाभ्यां शपे । यदग्रे वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानु- पृष्ठिकया। अहिंडन्ते उद्भ्राम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥ तरुणेत्यादि । वेशो वेश्याजनवासस्थानम् ॥ ३१॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति॑ इत्यर्थे यक्यकारलोपेच रूपम् । यथा मगधशब्दे मगध्यतीति भवति । नामं करोतीत्यर्थे णिचि संज्ञा पूर्वको विधिरनित्यः' इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम् इत्येके । “ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥