पृष्ठम्:मृच्छकटिकम्.pdf/२८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
दशमोऽङ्कः

 रोहसेनः--किं मर गदेण कादव्वं ।। { किं मया गतेन कर्त- व्यम् ? ।]

 चारुदत्तः--

आश्रमं वत्स ! गन्तव्यं गृहीत्वाद्यैव मातरम् ।
मा पुत्र ! पितृ1दोषेण त्वमप्येवं गमिष्यसि ॥ ३२ ॥

तद्वयस्य ! गृहीत्वैनं व्रज ।

 विदूषकः---भो वअस्स ! एवं तुए जाणिदं, तुए विणा अहं पाणाइं धारेमि त्ति ? । [ भो वयस्य ! एवं त्वया ज्ञातम् , त्वया विनाह प्राणान्धारयामीति ? ।]

 चारुदत्तः–वयस्य ! स्वाधीनजीवितस्य न युज्यते तव प्राणपरि- त्यागः ।।

 विदूषकः—( स्वगतम्) जुत्तं ण्णेदं, तधा वि ण सक्कुणोमि पिअवअस्सविरहिदो पाणाइं धारेदुं त्ति । ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सं । ( प्रकाशम् ) भो वअस्स ! पराणेमि एदं लहुं। [युक्तं न्विदम् । तथापि न शक्नोमि प्रियवयस्यविरहितः प्राणान्धर्तुमिति । तद्ब्राह्मण्यै दारकं समर्प्य प्राणपरित्यागेनात्मनः प्रियवयस्यमनुगमिष्यामि । भो वयस्य ! परानयाम्येतं लधु । ] ( इति सकण्ठग्रहं पादयोः पतति )

( दारकोऽपि रुदन्पतति )

 शकारः-अले! णं भणामि शपुत्ताकं चालदत्ताकं वावादेध त्ति । [ अरे ! ननु भणामि सपुत्रकं चारुदत्तं व्यापादयतेति ।]

( चारुदत्तो भयं नाटयति )


तुयलशि त्वरसे ॥ आश्रममिति ॥ ३२ ॥ किं ओहशशीत्यादि । गाथा । टिप्प..1 तव पित्रा वसन्तसेना मारितेत्यपवादरूपपित्रपराधेन त्वमपि मैवंविधां

दशां गमिष्यसीति भावः ।