पृष्ठम्:मृच्छकटिकम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
मृच्छकटिके

 चाण्डालौ---णहि अम्हाणं ईदिशी लाआण्णत्ती, जधी शपुतं चालुदत्तं वावादेध त्ति । ता णिक्कम ले दालआ ! णिक्कम । ( इति निष्कामयतः ) इमं तइअं घोशणट्ठाणं । ताडेध डिंडिमं । [न ह्यस्माकमीद्दशी राजाज्ञप्तिः, यथा सपुत्रं चारुदत्तं व्यापादयतेति । तन्निष्क्राम रे दारक! निष्क्राम । इदं तृतीयं घोषणास्थानम्। ताडयत डिण्डिमम् । ] ( पुनर्घोषअतः )

 शकारः----{ स्वगतम् ) कधं एशे ण पत्तिआअंति पौला । (प्रकाशम् ) हंहो चालुदत्ता बडुका ! ण पत्तिआअदि एशे पौलजणे । ता अत्तणकेलिकाए जीहाए भणाहि मए वशंतशेणा मालिदेति । [कथमेते न प्रत्ययन्ते पौराः ? । अरे चारुदत्त बटुक ! न प्रत्ययत एष पौरजनः । तदात्मीयया जिह्वया भण---‘मया वसन्तसेना मारिता' इति ।]

( चारुदत्तस्तूष्णीमास्ते )

 शकारः-अले चंडालगोहे ! ण भणादि चालुदत्तबडुके । ता भणावेध इमिणा ज्जजलवंशखंडेण शंखलेण तालिअ तालिअ । [ अरे चाण्डालमनुष्य ! न भणति चारुदत्तबटुकः । तद्भणयतानेन जर्जरवंशखण्डेन शङ्खलेन ताडयित्वा ताडयित्वा ।]

 चाण्डालः–(प्रहारमुद्यम्य ) भो चालुदत्त ! भणाहि । [ भोश्चारु- दस्त ! भण।]

 चारुदत्तः-( सकरुणम् )

प्राप्यैतद्व्सनमहार्णवप्रपातं
न त्रासो न च मनसोऽस्ति मे विषादः ।
एको मां दहति जनापवादवह्निः ।
र्वक्तव्यं यदि मया हता प्रियेति ॥ ३३ ॥

( शकारः पुनस्तथैव )


किमवहससि हे ज्ञक (?) पुरुषं दृष्ट्वा दैवपर्यस्तम् । विदितं न त्वमपी (त्यी?) वत हे दुर्जन कृतान्तदंष्ट्रापुमारोहपि ॥ (१) पराणेमि परानयामि व्यावर्तयामि ।। एत्ताए

टिप्प-1 शङ्खलो नाम वध्यपटहडिण्डिमवादनदण्ङ: ।