कृता नगर्युज्जयिनी, सोऽनीशोऽर्थकलस्यवर्तकारणादीदृशमकार्यमनुतिष्ठतीति ? । अरे रे कुलटापुत्र राजश्थालसंस्थानक उच्छृङ्खलक कृतजनदोषभाण्ड बहुसुवर्णमण्डितमर्कटक ! भण भण ममाग्रतः, य इदानीं मम प्रियवयस्यः कुसुमितां माधवीलतामप्याकृष्य कुसुमावचयं न करोति कदाप्याकृष्टतया पल्लवच्छेदो भवतीति, स कथमीदृशमकार्यमुभयलोकविरुद्धं करोति ?। तिष्ठ रे कुट्टिनीपुत्र! तिष्ठ। यावदेतेन तव हृदयकुटिलेन दण्डकाष्टेन मस्तकं ते शतखण्डं करोमि ।]
शकारः-( सक्रोधम् ) शुणंतु शुणंतु अज्जमिश्शा । चालुदत्तकेण शह मम विवादे ववहाले वा; ता कीश एशे काकपदशीशमश्तका मए शिले शदखंडे कलेदि।। मा दाव; ले दाशीए पुत्ता, दुट्टबडुका ! । [ शृण्वन्तु शृण्वन्त्वार्यमिश्राः ! चारुदतेन सह मम विवादो व्यवहारो वा; तकिमर्थेमेष काकपदशीर्षमस्तको मम शिरः शतखण्डं करोति ? । मा तावत्; रे दास्याःपुत्र दुष्टबटुक !!]
( विदूषको दण्डकाष्ठभुम्य पूर्वोक्तं पठति; शकारः सक्रोधमुत्थाय ताडयति; विदूषकः प्रतीपं ताडयति; अन्योऽन्यं ताडयतः; विदूषकस्य कक्षदेशादाभरणानि पतन्ति )
शकारः--( तानि गृहीत्वा, दृष्ट्वा ससाध्वसम्) पेक्खंतु पेक्खंतु अज्जा ! । एदे खु ताए तवश्शिणीए केलका अलंकाला । ( चारुदत्तमुद्दिश्य ) इमश्श अत्थक्ल्लवत्तश्श कालणादो एशा मालिदा वावादिदाअ अ । [ पश्यन्तु पश्यन्त्वार्याः ! एते खलु तस्यास्तपस्विन्या अलंकाराः । अस्यार्थकल्यवर्तस्य कारणादेषा मारिता व्यापादिता च ।]
( अधिकृताः सर्वेऽधोमुखाः स्थिताः )
चारुदत्तः---( जनान्तिकम् )
अयमेवंविधे काले दृष्टो भूषण विस्तरः ।। |
विदूषकः----भो ! कीस भूदत्थं ण णिवेदीअदि । । [भोः ! किमर्थं भूतार्थो न निवेद्यते । । ]