चारुदत्त-वयस्य !
दुर्बलं नृपतेश्चक्षुर्नैतत्तत्वं निरीक्षते। |
अधिकरणिकः--कष्टं मो. ! कष्टम्;
अ2ङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः । |
श्रेष्ठिकायस्थौ---( विलोक्य, वसन्तसेनामातरमुद्दिश्य ) अवहिदा दाव अज्ज एदं सुवण्णभंडअं अवलोएदु, सो ज्जेव्व एसो ण वेत्ति । [ अवहिता तावदार्येदं सुवर्णभाण्डमवलोकयतु तदेवेदं न वेति ।
वृद्धा---( अवलोक्य ) सरिसो एसो, ण उण सो । [सदृशमेतद्, न पुनस्तत् ।]
शकारः-आं, दुड्ढकुट्टणि ! अक्खीहिं मंतिदं वाआए मूकिदं । [ आं, वृद्धकुट्टनि ! अक्षिभ्या मन्नितं वाचो मूकितम् । ] वृद्धा -हदास ! अवेहि । [ हताश ! अपेहि ।]
श्रेष्ठकायस्थौ---अप्पमत्तं कधेहि, सो ज्जेव एसो ण वेत्ति । [ अप्रमत्तं कथय, तदेवैतन्न वेति ।।
वृद्धा---अज्ज 1 सिप्पिकुसलदाए ओबंधेदि दिट्टिं । ण उण सो । [ आर्य ! शिल्पिकुशलतयावबध्नाति दृष्टिम् । न पुनस्तत् ।]
पेति लोकोक्तिः । कृतजनदोषश्चासौ भण्डश्चेति विशेषणसमासः ।। मए मम । शिले शिरः ॥ अयमिति ॥ ३१ ॥ दुर्बलमिति ॥ ३२ ॥ अङ्गारकेति ॥३३॥
टिप्प०-1 मया न मारितेति वदतो दैन्यमश्लाध्यं मरणं भवेदित्यन्वयः । 2 अङ्गारको मङ्गलस्तेन सह विरोधं प्राप्तस्येत्याशयः । अत्र शकारोऽङ्गारकेनोपमीयते चारुदत्तो बृहस्पतिना, विदूषककक्षप्रदेशादलंकारपतनं धूमकेतुनेति ज्ञेयम् । अङ्गारको
विरुद्धो यस्येति सम्यगर्थः । अत्र अप्रस्तुतप्रशंसालंकारः ।