पृष्ठम्:मृच्छकटिकम्.pdf/२१२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
मृच्छकटिके

[ एताभ्यां ते दशनखोत्पलमण्डलाभ्यां
हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् ।
कर्षामि ते वरतनुं निजयानका
त्केशेषु वालिदयितामिव यथा जटायुः ॥]

 विटः----

अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ २१ ॥

तदुत्तिष्ठ त्वम्, अहमेनामवतारयामि । वसन्तसेने ! अवतीर्यताम् ।

( वसन्तसेनावतीर्यैकान्ते स्थिता )

 शकारः----(स्वगतम् ) जे शे मम वअणावमाणेण तदा लोशग्गी शंधुक्खिदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलिदे, तं शंपदं मालेमि णं । भोदु एव्वं दाव । ( प्रकाशम् ) भावे भावे !

जदिच्छशे लंबदशाविशालं पावालअं शुत्तशदेहिं जुत्तं ॥
मंशं च स्वादुं तह तुश्टि कादुं चुहू चुहु चुक्कु चुहू चुहूत्ति ॥ २२ ॥

[ यः स मम वचनावमानेन तदा रोषाग्निः संधुक्षितः, अद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः। तत्सांप्रतं मारयाम्येनाम् । भवतु एवं तावत् । भाव भाव !

यदीच्छसि लम्बदशाचिशालं प्रावारकं सूत्रशतैर्युक्तम् ।।
मांसं च खादितुं तथा तुष्टिं कर्तुं चुहू चुहू चुकु चुहू चुहू इति ॥ ]


तिलकच्छन्दसा । सबिन्दोः पाक्षिकगुरुत्वात एदेहिं हत्थेहिं इत्यनयोर्लघुत्वम् । एताभ्यां तव दर्शनखोल्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कर्पयामि दे त्वाम् । वरतनुं निजयानकान्केशेषु वालिदयितामिव यथा केशेषु जटायुराकृष्टवान् । पाठान्तरे हनुमानित्यर्थः । व्याहृतोपमं चेदम् ॥ २० ॥ अग्राह्या इति ॥ २१॥ योऽसौ वचनामानेन तदा रोषाग्निः संधुक्षितः । सोऽद्येतस्याः पादप्रहारेणानेन प्रज्वलितः । ततः सांप्रतं मारयाम्येनाम् । जदिच्छशे इत्यादि । उपजातिच्छन्दसा । यदीच्छसि लम्बदशा विशालं प्रावारकं प्रच्छदं सूत्रशतैर्मग्रथितम् । मांस च खादितुं तथा तुष्टिं कर्तुम् । चुहू चुहू