पृष्ठम्:मृच्छकटिकम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
अष्टमोऽङ्कः

 विटः-----ततः किम् ।।

 शकारः-मम पिअं कलेहि । [ मम प्रियं कुरु ।]

 विटः---बाढं करोमि वर्जयित्वा त्वकार्यम् ।

 शकारः—भावे ! अकज्जाह गंधे वि णत्थि । लक्खशी कावि णत्थि । [ भाव ! अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति ।]

 विटः---उच्यतां तर्हि ।।

 शकारः---मालेहि वशंतशेणिअं । [ मारय वसन्तसेनाम् ।

 विटः----( कर्णौ पिधाय )

बालां स्त्रियं च नगरस्य विभूषणं च ।
वेश्यामवेशसदृशप्रणयोपचाराम् ।
एनामनागसमहं यदि घातयामि
केनोंडुपेन परलोकनदीं तरिष्ये ॥ २३ ॥

 शकारः-- अहं ते मेडक दइश्शं । अण्णं च, विवित्ते उज्जाणे इध मालंतं को तुमं पेक्खिश्शदि ।। अहं त उडुपं दास्यामि । अन्यच्च विविक्ते उद्यान इह मारयन्तं कस्त्वां प्रेक्षिष्यते ।।]

 विटः--

पश्यन्ति मां दशदिशो वनदेवताश्च
चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् ।
धर्मानिलौ च गगनं च तथान्तरात्मा ।
भूमिस्तथा सुकृतदुष्कृतसाक्षिभुता ॥ २४ ॥


चुक्कु चुहू चुहूत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेन्योन्यार्थावेतौ (१) ॥ बालामिति । अवेशसदृशेति । अवेश्यापाठकोचितं कृत्तिमम् (१) ॥ २३ ॥ विवित्ते बिजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ ३४ ॥ अपध्वस्तो .•

टिप्पः– तदानीं मध्याह्ने रवेर्मस्तकस्थितत्वादा --अयमिति ।