पृष्ठम्:मृच्छकटिकम्.pdf/२०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
अष्टमोऽङ्कः

 चेटः--विभज्ज ले पवहण ! शमं शामिणा विभज्ज । अण्णे पवहणे भोदु । भट्टके गदुअ णिवेदेमि । (प्रवेश्य ) कधं ण भग्गे । भट्टके ! एशे उवत्थिदे पवहणे । [ विभञ्ज रे प्रवहण ! समं स्वामिना विभञ्ज । अन्यत्प्रवहणं भवतु । भट्टारकं गत्वा निवेदयामि । कथं न भग्नम् ।। भट्टारक ! एतदुपस्थितं प्रवहणम् ।]

 शकारः–ण छिण्णा गोणा ? । ण मला लज्ज । तुमं पि ण मले । [न छिन्नौ वृषभौ ? । न मृता रजवः ? । स्वमपि न मृत: १।]

 चेटः---अध इं। [ अथ किम् ।]

 शकारः--भावे ! आअच्छ; पवहणं पेक्खामो। भावे ! तुमं पि मे गुलु पलमगुलु । पेक्खीअशि शादलके अब्भंतलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । [भाव ! आगच्छ; प्रवहणं पश्यावः । भाव ! त्वमपि मम गुरुः परमगुरुः । प्रेक्ष्यसे सादरकोऽभ्यन्तरक इति पुरस्करणीय इति त्वं तावत्प्रवहणामग्रतोऽधिरोह ।]

 विटः---एवं भवतु । ( इत्यारोहति )

 शकारः----अधवा च्यिश्ट तुमं । तुह बप्पकेलके पवहणे, जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी; अग्गदो पवहणं अहिलुहामि । [अथवा तिष्ठ त्वम् । तव पितृसंबन्धि प्रवहणम् , येन त्वमग्रतोऽधिरोहसि । अहं प्रवहणस्वामी; अग्रतः प्रवहणमधिरोहामि ।

 विट-भवानेवं ब्रवीति ।।


णमित्याह-कथं न भग्न इति ॥ म छिण्णा लज्ज, ण मला गोणा इति वक्तव्ये शकारोक्तत्वाद्भ्रमणम् । मम गुरुः । गुरुरित्यतिमान्यत्वपरम् एवं त्वं प्रेक्षसे । सावरं महतकृत्वा (?)। पुलक्कलिलीए पुष्पतणीयः (१) पुष्कलिनी । “एकार्यन्व- ययच्छनीश इत्यनेन गुरुत्वमेव द्रढयति' इति प्राचीनटीका (?) । त्वं तावत्पवहणमग्रत आरोह ॥ अथवा तिष्ठ त्वम् । तव पित्र्यं प्रवहणम् । अहं प्रवहणस्वामी। टिप्प०-1 ‘छिण्णालज्ज' इत्येकपदस्यापि मध्ये पदान्तरैर्व्यवहितत्वं शकारभाषणत्वादुपपद्यते । छिण्णालज्ज पुंश्चलीज इत्यर्थः ।