पृष्ठम्:मृच्छकटिकम्.pdf/१९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
मृच्छकटिके

अष्टमोऽङ्कः

(ततः प्रविशत्यार्द्रचीवरहस्तो भिक्षुः )

 भिक्षुः---अ1ज्ञा ! कलेध धम्मशंचअं,-

शंजम्मध णिअपोटं णिच्चं जग्गेध झाणपडहेण ।
विशमा इंदि अचोला हलंति चिलशंचिदं धम्मं ॥ १ ॥

अवि अ, अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि ।

पंचजण जेण मालिदा इत्थिअ मालिअ गाम लक्खिदे ।।
अबले के चंडाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥ २ ॥
शिल मुंडिदे तुंड मुंडिदे चित्त ण मुंडिद कीश मुंडिदे ।।
जाह उण अ चित्त मुंडिदे शाहु शुट्ठु शिल ताह मुंडिदे ॥ ३ ॥

गिहिदकशाओदए एशे चीवले, जावं एदं लट्टिअशालकाहकेलके उजाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवक्कमिश्शं

 [ अ1ज्ञाः ! कुरुत धर्मसंचयम्,-

संयच्छत निजोदरं नित्यं जाग्रत ध्यानपटहेन ।
विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥


शंजम्मधेति । गाथा । क्वचिदृश्यते । संयच्छत निजकमुदरं नित्यं जाग्रत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ १ ॥ पंचज्जणेत्यादि । वैतालीछन्द सा द्वयम् । पञ्चेति । ज्जणसंयोगात्पच्चेति पञ्चशब्दो गुरुः छन्दोनुरोधात् । पञ्चजनेति णकारः ( ? )। अबले क्केति केवलः ककारः एकारश्च लधुः । अवसं वीत्यत्र सकारो न प्रविष्टः । अन्यथा अवस्सं वीति स्यात् । शे गले इत्येकारद्वयेऽन्यतरो न गाहतीत्यत्र ‘गा' इत्याकारस्य गुरुत्वम् । पञ्चजनाः पञ्चेन्द्रियाणि । इत्थिअ अविद्याम् । गाम शरीरम् । लक्खिदे रक्षितः । दुष्टत्वविकृतिपातात् । चण्डालोऽहंकारः । अबलोऽसहायः । अथवेन्द्रियादिविनाशात् । अवश्यं स नरः स्वर्गं गाहते ।। २ ।। शिरों मुण्डितं तुण्डं मुडित चित्तं पाठा०-१ अज्जाः (=आर्याः).