पृष्ठम्:मृच्छकटिकम्.pdf/१४९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१४१
पञ्चमोऽङ्कः

येषां रवेण सहसोत्पतितैर्मयूखैः
खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥

अपि च,--

पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः
कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते ।
संन्यासः कुलदूषणैरिव जनैर्मेघैर्वृतश्चन्द्रमा
विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र संतिष्ठते ॥ १४ ॥

 वसन्तसेना-भाव ! सुट्ठु दे भणिदं । [ भाव ! सुष्ठु ते भणि- तम् । एषा हि ।

मूढे ! निरन्तरपयोधरया मयैव
कान्तः सहाभिरमते यदि किं तवात्र १ ।।
मां गर्जितैरपि मुहुर्विनिवारयन्ती
मार्गं रुणद्धि कुपितेव निशासपत्नी ॥ १५ ॥

 विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् ।।

 वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः।

मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥

 विटः---वसन्तसेने ! पश्य पश्य, अयमपरः


गर्जन्तीति॥ १३ ॥ पङ्केति। कण्ठं मुञ्चतीति। ‘कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्णं कण्ठं मुञ्चतीत्युत्प्रेक्षा (१ ) ॥ १४ ॥ मूढे इति। मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥


दिप्प०---1 अत्र शब्दशक्तिमूलो ध्वनिः ।