पृष्ठम्:मृच्छकटिकम्.pdf/१४८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१४०
मृच्छकटिके

 चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- कृतं मया, तद्गृह्यतां पारितोषिकम् । ( इत्युत्तरीयं प्रयच्छति )

 चेट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्जआए णिवेदेमि । [यावदार्याया निवेदयामि । ] ( इति निष्क्रान्तः )

 विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।]

 चारुदत्तः–वयस्य ! न सम्यगवधारयामि ।

 विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुल्लं सुव- एणभंडअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा । [मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- मागता।]

 चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति ।

(ततः प्रविशत्युज्ज्ववलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च )

 विटः--(वसन्तसेनामुद्दिश्य )

अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं
कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।
सलीलं गच्छन्ती रतिसमयलज्जा प्रणयिनी
रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥ १२ ॥

वसन्तसेने ! पश्य पश्य ।

गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा
मेघा वियुक्तवनिताहृदयानुकाराः ।


पण्डं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डं पदम् ॥ अपद्मेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचा (?) मित्यादिनाकारलोपः ॥ १२ ॥