पृष्ठम्:मृच्छकटिकम्.pdf/११

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः

एवममार्यमिश्रान्प्रणिपत्य विज्ञापयामि–- यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः । एतत्कविः किल,-

द्विरदेन्द्रगतिश्चकोरनेत्रः परिपूर्णेन्दुमुखः सुविग्रहश्च ।
द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३॥

अपि च,-

ऋग्वेदं सामवेदं गणितमथ कलां वैशिकिं हस्तिशिक्षां
ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥

अपि च,---

समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च ।
परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥

अस्यां च तत्कृतौ--

अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः ।
गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥


इति ठन् । मृदः शकटिकाऽस्मिन्निति वा बहुव्रीहिः । [ द्विरदेन्द्रेति ।] द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः । ‘त्रयो वर्णा द्विजातयः' इति स्मृते: क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ ऋग्वेदमिति ।] वेशोऽत्र कार्स्नेयेन वेश्यापरः। तत्र भवा विद्यमाना । अध्यात्मादिवात्ट्ठक् । यद्वा,-वेशोऽग्निनिवे- शाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगतिद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया ‘अग्निं प्रविष्टः' इत्यादिभूतकाले प्रत्यया न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनामके यज्ञविशेषे, यथा शरभङ्गेण कृतस्तथा बौद्धव्यः ॥ ४ ॥ समरेति । ककुदं चिह्नभूतं प्रवीणो वा । तथा चामरः--‘प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति ।वारणो हस्ती ॥५॥ अवन्तीति । अवन्तिपुरी उज्जयिनी । 'अस्यां च तत्कृत, अवन्ति–'इत्या-