पृष्ठम्:मृच्छकटिकम्.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
मृच्छकटिके

अपि च,-

पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ २॥

( नान्द्यन्ते )

सूत्रधारः-अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण ।


श्रेष्ठी-- एते एकादश शौरसेनीभाषापाठकाः । सूत्रधारोऽप्यत्र प्राकृती, ‘कार्यवशात्’ इति वक्ष्यते । अवन्तिभाषापाठकौ वीरकचन्दनकौ । प्राच्यभाषापाठको विदूषकः । संवाहकः शकारवसन्तसेनाचारुदत्तानां चेटकत्रितयं भिक्षुश्चारुदत्तदारकः---एते षण्मागधीपाठकाः। अपभ्रंशपाठकेषु शकारी भाषापाको राष्ट्रियः । चाण्डालीभाषा- पाठक चाण्डाली। ढक्कभाषापाठौ माथुरद्यूतकरौ । तथा--शौरसेन्यन्तिजा प्राच्या–एतासु दन्त्यसकारता । तत्रावन्तिजा रेफवती लोकोक्तिबहुला । प्राच्या खार्थिककारप्राया । मागधी तालव्यशकारवती । शारीचाण्डाल्योस्वालव्य- शारता । रेफस्य च लकारता । वैकारप्राया ढकविभाषा । संस्कृतप्रायत्वे दन्त्य- तालव्यसशकारद्वययुक्ता च । 'अपार्थनक्रमं व्यर्थं पुनरुक्तं हतोपमम् । लोकन्याय- विरुद्धं च शकारवचनं विदुः॥' अपार्थं निरर्थम् । व्यर्थं विरुद्धार्थम् । यद्वा, निश्चितानन्वयं पदजातं वाक्यज्ञातं चार्थकम् । व्यर्थं निरर्थकमेव । हतोपमं व्याहतोपमम् । ‘शकारप्रायभाषित्वाच्छकारो राष्ट्रियः स्मृतः । एकविद्यो विटाश्चान्यो हास्यकृच्च विदूषकः ॥' खार्थिकः ककारः सर्वत्र । द्विवचनं चतुर्थी- विभक्तिश्च नास्त्येव । द्वित्वे तु बहुवचनम् । चतुर्थ्यर्थे षष्ठी । परस्मैपदा- त्मनेपदविपर्ययः । पूर्वनिपातानियमश्च । बहुलं छन्दसो निदर्शनमप्रसिद्ध च्छन्दोज्ञानार्थम्, पाठविप्लवनिरासार्थं च ॥ पर्यङ्केत्यादि । पर्यङ्कः पर्यस्तिका, तस्य बन्धनेन द्विगुणितो यो भुजङ्गस्तस्य संबन्धेन स्थगितं जानु यस्य । आत्मनि शरीर एवोपरतं करणमिन्द्रियं यथा स्यादेवं तत्त्वदृष्ट्यानारोपि- तज्ञानेन शून्येक्षणे निराकारालोचने घटितोऽत्यन्तसंबद्धो यो लयस्तत्प्रवणताविशेष- स्तेन ब्रह्मणि परमे रूपे लग्न आसक्तः समाधिर्ध्यानमीशस्य वो युष्मान् रक्षतु ॥१॥ [ पात्विति ॥ २ ॥] आर्यान्मान्यान् , मिश्रानभ्यस्तबहुशास्त्रान् । चारुदतपुत्र- रोहसेनक्रीडनार्थं षष्ठेऽङ्के उक्तं मृच्छकटमत्रास्ति । अत इनिठनौ’ (पा० ५।२।११५)