संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् " पत्स्यमानेन तेजःखरूपेण प्रदीपनैव अन्धकारो हन्यते । ततः खलु प्रकाशाख्यप्रदीपस्य उदयः। तस्माद् यदुक्तं भवद्भिः प्रदीप नान्धकारः, न वा प्रदीपाधिकरणे अन्धकारः स्थातुमर्हतीति तदस्माकमिष्टमेव किन्तु प्रदीप प्रकाश्य नास्तीति यदुक्ता तन्न मृष्यामहे, यतस्तेजः- खरूपस्य प्रदीपस्य स्वभावविशेषादेव खात्मपरप्रकाशकत्व सुघटम् । अनुभूयते च सर्वैरेव प्रदीपस्य खात्मपरप्रकाशकत्वम् । नहि प्रदीप प्रकाशयितुं कदाचित् प्रदीपान्तरग्रहणमस्ति लोके, प्रदीपस्य परप्रका- शकत्व पुन: पांशुलपादानां हालिकानामप्यनुभवसिद्धमिति न तत्र विचारापेक्षा। तस्माद् दृष्टान्तासिद्ध रुद्भावनप्रयासो भवतां वचित्त- प्रह्लादकोऽपि अनर्थक एवेति स्थितम् । तत्रोच्यते उत्पद्यमानेन प्रदीपेन तमो हन्यते इति यदुक्त तन्न विचारभाव सोढ़ क्षमते, नाशस्य नाश्यनाथकयोः प्राप्तिपूर्वकत्वनियमादत्रापि यदि नाश्यनाशकयोः प्राप्तिनं स्यात् तदा कथं नाशः। नहि मुहरेणाप्राप्तस्य घटस्य तेनैव मुद्रेण विनाशः क्वचिदपि लोके । नवा देशान्त- रेणालोकेन अस्पृष्टस्य देशान्तरोयान्धकारस्य वा विनाशो भवतामपि ईप्सितो भवेत्। तस्मादकामनापि भवता एतत् स्वीकरणीय यत् नाश्यनाशकयोर्यदि प्राप्ति: स्यात् तदैव नाशकेन नाश्यस्य नाथः सम्भवेत्, एवञ्च सति प्रदपेनान्धकारो हन्यते चेत् प्रदीपन साई मप्यन्ध- कारस्य प्राप्तिरपक्ष्यते। तथा चानुत्पन्न न प्रदीपन कथ तमसो मेलन सम्भवति। मेलनस्य च सम्बन्धरूपतया सम्बन्धस्य च विद्यमानसम्बन्धियाधीनतया अविद्यमानेन प्रदीपन तमसः सम्वन्धः नैव सम्भवति। तथाच नाश्यनाशकयोरुभयोरिव विद्यमानदशायां तदुभयप्राप्तिपूर्वकस्य विनाशस्य सम्भवान्नाशकासत्त्व नाश्यस्य नाशः कथमपि खोकत्तुं न शक्न यात्। तस्मादुत्पद्यमानेन प्रदीपन तमो विनष्टमिति खगुणमुग्धजनविमोहन' भवतां वचः, न तु विचार- सहमित्यभिप्रायेणाह कथमुत्पद्यमान इति। उत्पद्यमानेन प्रदीपन साम्प्रतमनुत्पन्नतया सत्तारहितेन कथ तमो हतमिति युज्यते। नहि कथमपि युक्तमतदित्यर्थः। तदैव कारणमुपन्य स्थति नीत्पद्यमानमिति । .
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९१
दिखावट