सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका न सम्भवति। तथाहि यत्रदेशे प्रदीपस्तिष्ठति यदि तत्रान्धकारसत्ता- सम्भवः स्यात्तदैव तमोनाशात्मकस्य प्रदीपस्य तत्रस्थवस्तुप्रकाशकत्व घटते। प्रदीपसमानाधिकरण देशे तु विरोधादेव अन्धकारस्य सत्ता न सम्भवतीति न प्रदीपस्य परप्रकाशत्वकमपि । तथाच दृष्टान्ततया समुप- स्थापितस्य प्रदीपस्य स्वात्मपरप्रकाशकत्वमसिद्धमित्याह प्रदीप इति । प्रदीपो नाम प्रकाशः, नत्वन्यत् किञ्चित् । प्रकाशश्च तमोनाशाना- तिरिच्यते। तदेवोक्त प्रकाशो हि तमोवधः । एवञ्च सति तमोनाशा- त्मकस्य प्रदीपस्य खात्मप्रकाशकत्व तदैव सम्भवति यदि स्वात्मनि तमो विद्यमानं स्यात् । तत्तु न घटते विरोधात्। तथाच स्वात्मन्य नव- स्थितस्य अन्धकारस्य विनाशात्मकः प्रदीपाख्यः प्रकाशः खात्मन्य- वर्तमानतया खात्मान कथ प्रकाशयति। एतदेवोक्त प्रदीप नान्ध- कारोऽस्तीत्यादिना। एवं यत्र देशे प्रदीपो वर्त्तते यदि तत्राप्यन्ध- कारात्मप्रतिष्ठा सम्भवेत् तदा तन्नाशात्मकस्य प्रदीपस्यापि तत्रस्थानां वस्तूनां प्रकाशनं सम्भवेत्। न चैतदेवम्, प्रदीपान्धकारयोर्धिरोधादेव एकत्र समुपस्थानासम्भवात्। तथा चोक्त यत्र चासो प्रतिष्ठित इति । असौ प्रदीपः यत्र देशे विद्यते तत्राप्यन्धकारावस्थानासम्भवात् नह्यन्ध- कारनाशात्मकस्य प्रदीपस्य तत्रस्थानां वस्तूनां प्रकाशनं युक्त्या व्यवस्था- पयितुं शक्यते । एव च खात्मप्रकाशपक्षे कर्त,कर्मविरोधोऽपि द्रष्टव्यः । प्रकाश्य कर्म, प्रकाशकश्च कर्ता। कर्त,कर्मणोभिन्नत्वञ्च सर्वत्रैवानु- भूयते। खात्मप्रकाशकत्वपक्षे तु खयमेव कर्ताकर्म च इति भेदानव- गाहनात् तत्र नैतत् सङ्गच्छते। तस्मात् खात्मप्रकाशकत्व कथमपि न ग्राह्यम् । सवितरि च स्वात्मप्रकाशकत्वमपि एतत्तुल्यमेवेति तस्याप्य- सिद्धत्मात् दृष्टान्ततया तस्यापि नोल्लेखः समोचीनः। विचारस्य पर्य्यवमानफलमाह किमित्यादि। तथाहि प्रदीप: कि प्रकाशयति, न खात्मन परम्वाप्रकाशयितुं शक्नोति इत्यर्थः ॥ 1 stare_274167690717 atata ICCI opotá atsissa ofa- (57597 67 2171797 gètter its ITIL 67 1773 fat states to thefa यांना नदर। #taa aina facet le 079779 ***7 95 Fatcas