संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः । कि प्रकाशयति दीपः प्रकाशो हि तमोवधः ||९|| . इह प्रकाशो नाम तमसः वधः । तमश्च प्रदीपखात्मनि तावन्न संभवति विरोधात्, यत्तमो (नि) नतः खात्मप्रकाशत्व स्यात् । न चापि प्रदीपो यत्र देश तिठति तत्र तमोऽस्ति, यत्तमो निघ्नतः प्रदीपस्य परप्रकाशकत्व स्यात्। अतोऽपि नास्ति प्रदीपस्य स्वपरात्मप्रकाश- कत्वम् । यदा वचैं तदा प्रदीपबदुत्पादस्य स्वपरात्मनोत्पादकत्व न संभविष्यति इति अयुक्तमेतत् । अनाह, यदेतदुक्त प्रदोपे नान्धकारोस्तीति, एतदसत्यन्धकारघात युक्तमेव वक्तुम् । यस्मात्तुत्पद्यमानेनैव प्रदीपन तमो निहतम् । तत्र प्रदीप नान्धकारोऽस्ति। यत्र च प्रदीपोऽस्ति तत्राप्यन्धकारो नास्तीति युज्यते। यदि प्रदीपन नान्धकारघातः कृतः, तदानुत्पन्न इव प्रदीप उत्- पन्न ऽपि घटादयो नोपलभ्येरन्। अन्धकारघाताभावात्प्रागवस्थायामिव । तस्मादस्त्येवान्धकारघातलक्षण प्रकाशनं प्रदीपस्य । तच्चाननोत्- पद्यमानेन प्रदीपिन कृतमिति। उच्चते- 2 मञ्जु व्याख्या अत्र सिद्धान्तो आह प्रदोषदृष्टान्तवलेन प्रतिपादितोऽय भवताञ्च सिद्धान्तः तदैव सङ्गच्छते यदि दृष्टान्ततया समुल्लिखितस्य प्रदीपस्य खात्मपरप्रकाशकत्व प्रतिपादित भवेत्, वस्तुतस्तु तदेव न घटते । तथाहि प्रदीपः खलु प्रकाश एव । स च ध्वान्तविध्वंसरूप: अन्यस्या- सम्भवात्। तथाच विनाश्यं तमो यदि प्रदीप तिष्ठेत् तदैव तमो- नाशलब्धात्मलाभस्य प्रदीपस्य खात्मप्रकाशकत्वमपि सम्भवेत्। खप्रति- योगिदेश खल्वेव ध्वंसोत्पत्तिनियमात् विनाशप्रतियोगितमोव्यधिकरण- देशे तबाशोत्पत्त्यसम्भवेन निस्तमःप्रदेशे ध्वान्तध्वंसात्मकस्य प्रदीपस्य उत्पत्त्यसम्भवः। प्रदीप च विरोधादेव तमो न स्थातुं शक्नुयात् । तथाच कथं प्रदीपस्य आत्मप्रकाशकत्व घटते ? एवं परप्रकाशकत्वमपि
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/८७
दिखावट