सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तम प्रकरणम् ५८ TA र अयमुत पद्यमानस्ते काममुत्पादयेदिमम् । यदीममुत पादयितुमजातः शक्नुयादयम ||७|| काममय मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पाद यद्यय- मेवाजातः शक्नुयादपरमजातमुत्पादयितुम् । उत्पद्यमानो हि नामानागतः। स चाजातः कथमुत्पादयिष्यतीति न युक्तमेवैत- दित्यभिप्रायः । एवमुत्पादोत्पादेऽपि वाच्यम् । मञ्जुव्याख्या ॥ ननु हितीयेन उत्पादोत्पादाख्येन उत्पादेन उत्पादितः सन् अनन्तर स मौलोत्पादः द्वितीय जनयतीति नास्माकमभिप्रायः । किन्तु उत्पद्यमानः खलु मौलोत्पादः द्वितीयं जनयति। तदानी- मनुत्पन्नस्यापि तदव्यवहितोत्तरक्षण निश्चित जायमानस्य तदानीं कारणत्वसम्भवात् तथाविधकारणत्वकल्पने व्यभिचारासम्भवाच्च इति चेत्, अनोत्तग्माह अयमिति। उत्पद्यमानः मौलोत्पादः उत्- पादान्तर जनयतीति यदुक्त तत्तु तदैव सङ्गच्छते यदि खयमजातोऽपि कश्चिदपर जनयितुं शक्नुयादिति प्रमाणीकर्तुं शक्यते। वस्तुगत्या तदेव न घटते । तदानीमजातस्य तदाऽ सत्त्वात्, असतश्चपुनः जनकत्वा- सम्भवेन नोत्पद्यमानस्य जनकता सम्भवति । सम्भवश्च युक्तमा सर्वेः खीकरणीय यत्वात्। अन्यथा वन्ध्यापुत्रस्यापि जनकत्व दुष्परिहर स्यात् । नवा स्वयमजातस्य कथमपिकदापि जनकत्व केनचिदिष्यते। तादृशाङ्गीकारतु भाविपुत्रस्यापि साम्प्रत- मेव जनकत्वसम्भवेन तस्यापि तत् कथमधुनैव न स्यात् ? एवमजातस्य साम्प्रतमसतोऽपि कारणत्वाङ्गीकारपक्षे असत्वाविशेषण उत्पादान्तर प्रति मौलोत्पादस्येव यस्य कस्यचिदपि कल्पनीयधर्मस्य कारणत्व- कल्पने नैव किञ्चित् प्रतिवन्धक' लभामहे, असत्त्वस्य सर्वत्र व तुल्यत्वात्। तथाच सर्व्वदा सर्बोत्पत्तिदोषप्रसङ्गोऽपि समापतति । असतः कारणत्वा-