५० मूलमध्यमककारिका दूषणान्तराभिधानेन स्पष्टीकरणाथै पुनराचार्योऽभिहितवान् । यत्पादस्थितिभङ्गानामन्यदुत्पादादिकं संस्कृतलक्षणमिष्यते तदा तेषामप्यन्यत्तषामप्यन्यदित्यपर्यवसानदोषः स्यात् । सति चापर्य- वसानदोषे कि पूर्व स्याद्यत उत्तरकालमपर भवेदिति व्यवस्था- भावादसंभव एवोत्पादादीनामित्यभिप्रायः । अथ वा पूर्व मुख्यत्वा- टुत्पादस्यैव दूषणमुक्तमधुना तु सामान्येनेति । नास्ति चेत्ते न संस्कृता इति गतार्थमेतत् । अत्राहुः सांमितीयाः। सन्ति चोत्पादादीना- मुत्पादादयः। न चानवस्थाप्रसङ्गो लक्षणानुलक्षणानां परस्परनिष्पाद- कत्वात्। यस्मादिह संस्कृतधर्मः कुशलः क्लिष्टो वा उत्पद्यमान आत्मना पञ्चदश उत्पद्यन्ते। स धर्मस्तस्य चोत्पादः समन्वागमः स्थितिर्जराऽ- नित्यता। यद्यसो धर्म: क्लिष्टो भवति तस्य मिथ्याविमुक्तिः । शुभस्तस्य सम्यग्विमुक्तिः । यदि नैर्याणिको भवति तस्य नैर्याणिकता। अथानैर्याणिक (स्तस्यानर्याणिक ) तेत्येष परिवारः । इदानीमुत्- पादस्यापर उत्पादः। यावद (नैर्याणिकता) नैर्याणिकतत्येष (परिवारस्य) परिवारः । तत्र योऽय' मौल उत्पादः स आत्मान' बिहायान्यान् चतुर्दशधर्मान् जनयति। उत्पादोत्पादसंज्ञकस्त्वनु- लक्षणभूत उत्पादो मौलमेवोत्पाद जनयति, एवं यावदनैर्याणिकता चतुर्दशधर्मान्न निर्याणयति । न तन्निर्वाण प्रापयति इत्यर्थः (अ)नर्याणिकतानैर्याणिकता तु प्रापयति अनर्याणिकतामनर्याणि- अथ । कतामेवेति ॥३॥ मञ्ज व्याख्या उत्पादस्य संस्कृतत्व असंस्कृतत्व वा कथमपि अस्य संस्कृत- लक्षणत्वन सङ्गच्छत इति यदुक्ता प्राक तदेवोपसंहरन्नाह उत्पाद इत्यादि। ननु पूर्वेणैव गतार्थत्वात् पुनरुक्ततया निरर्थकमिदमिति चेन्न, पूर्वतः किञ्चित् पार्थक्यमत्रावगम्यते। पूर्व विशेषेण प्रत्येकमादाय विचारणा कता, साम्प्रत तु साकल्येन सामान्यविचारः क्रियते इत्य- दोषः। वस्तुतस्तु पूर्वविचारस्य पर्यावसितार्थकथनमिदम् । तथा च
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७४
दिखावट