सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ मूलमध्यमककारिका मसमनुपश्यन्ननुपलभमानोऽरतोऽदुष्टोऽमूढोऽविपर्यास्तचित्तः समाहित इतुपच्यते। तोर्णः पारग इतुच्यते क्षमप्राप्त इतुच्यते, अभयप्राप्त इतुच्यते, यावत् क्षीणास्रव इताच्यते। निःले शो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञ आजानयो महाभागः कृतकृत्यः करणीयः अपहृतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्य- गाज्ञासुविमुक्तचित्त: सर्व चेतोवशितापरमपारमिप्राप्तः श्रमण इतुच्यत, इति विस्तरः । कृत- तथा- यो रागदोषमदमोहसभाव नात्वा संकल्पहेतुजनितं वितथप्रवृत्तम् । न विकल्पयन्ति न विरागमपोह तेषाम् सर्वभवभावविजवितानामिति ॥ इत्याचार्य चन्द्रकिर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्ती रागरक्तपरीक्षा नाम षष्ठ' प्रकरणम् । मञ्जु व्याख्या साम्प्रतं विचारितार्थ निगमयन् विरोघिभिरुद्भावितस्य प्रश्नस्य समाधानमाह एवमिति । एवमित्यनेन पुवो क्तयुक्तिनिश्चयः परामृश्यते । पञ्चम्यन्त चाव्ययमिदम् । तथाविधयुक्तिवला- दित्यर्थः। । रतो न सह रागस्य न सिद्धिः, एतत्तु रागरक्तयोरेकत्व पथकत्व वा इत्यारभ्य प्रतिपादितम् । नवा रक्तन असह इति । रागरक्तयोः पौर्वाप-सम्भवस्य प्रतिपादितत्त्वात् तेनैव अयमपि पक्षो निरस्तः । ततः पोर्वापर्येण वा सहभावेन वा कथमपि न रागरक्तयोः सिद्धिः सम्भवतीत्यर्थः । नातदुभयमन्तरेण अस्ति प्रकारान्तर- सम्मवः। उभये च कल्पे निराकृत सुतरामेव रागरक्तयोः सिद्धिन सम्भाव्येत । यथा प्रदर्शितया दिशा रागरतायो सिद्धिप्रकारो निराकृत स्तथैव अपरेषामपि धर्मानां सिद्धिप्रकारोपि अनयैव रीत्य खण्डनीयः । तथाहि षदिष्टयोः मोहमूढयोरपि सिद्धिसम्भावना कथमपि नास्ति ।