रागरतापरीक्षा नाम षष्ठ' प्रकरणम् २८ यतः खण्डयन, उपसंहारमाह पृथग्भावप्रसिद्ध श्च इत्यादि। पृथग्भावे प्रसिद्ध इति सहभावात् प्रागेव बोध्यम् । तथाच सहभावात् प्रागव पृथग्भाव प्रसिद्ध तयोः सहभावकल्पना पुन: विफल व । पृथकत्व सिद्धे सुतरामेव तदाश्रयीभूतयोः रागरतयोरपि सिद्धिः सुस्थिता स्यात्। अतो रागरतसिद्धिसम्पादकत्वन परिकल्पितन सहभावन किमपि न करणीयं वर्तते इति निष्फलमेव तत्कल्पन स्यात्। न च निष्फलकल्पना युक्ता। यदि पुनरेवं मन्यते पृथग्भूतानामेव गवाखादीनां सहभाव- दर्शनात् सत्यपि पृथग्भावे सहभावः कथमप्राप्तावकाश इति । तदा त्वाह कतस्मिन् इति । तथाच अयमत्राभिप्रायः । भवता परि- कल्प्यमानः पृथग्भावः सहभावापक्षो न वा। यदि तु सहभावापेक्षत्व पृथग्भावस्याभिप्रेतं तदा सहभावाभावदशायां तादृशस्य पृथग्भावस्य विद्यमानता नव सम्भवति । यत् यदपेक्षते तत् तदसत्त्वकाले नव भवितुमर्हति। नहि अविद्यासापेक्षा विषयतृष्णा अविद्यासत्त्वकाले स्थातुं शक्नोति। तस्मात् सहभावापेक्षस्य पृथग्भावस्य सहभाव- प्राग्वत्तित्व कथकारं भवेत् । अथ सहभावानपक्ष एव पृथग्भाव इषात तदा तदिधे पृथग्भाव सत्यपि सहभावः कुतः सम्भावत। नहि तदनपेक्षस्य सत्त्वेपि तदवस्थितिनियमतो व्यवस्थापयितु शक्यते। नहि अविद्यानिरपेक्षस्य निर्वाणस्य अविद्यास त्वं अवस्थानं युक्तम् । तथाच सहभावानपेक्ष: पृथग्भावो यद्यभिमतः स्यात्तदापि न तादृशेन पृथग्भा- वेन सहभावः सिध्यति । अतः सहभाव प्रसिद्धार्थ यदि रागरक्तयोः पृथग्भावः परिकल्पनीयः स्यात्तर्हि सहभावापेक्षस्य एव पृथग्भावस्य कल्पना कर्तव्या। तथाविधस्य तु पृथग्भावस्य सहभावात् प्रागसिद्ध- तया न तेन कल्पनीयेन प्राग्वतिना पृथग्भावेन रागरक्तयोः परकालीन: सहभावः सिध्यतीत्यर्थः। तथाहि रागरक्तयोः कथमस्मिन् पृथग्भाव इति । सहभावापेक्षे तदनपक्ष वा पृथग्भाव सतीत्यर्थः । सहभावा- पेक्षस्य पृथग्भावस्य सहभावात् प्रागसिद्धः। तदनपेक्षस्य पृथग्भा- बस्य च विनैव सहभाव स्थितेः सम्भवात् न तथा विधेन पृथग्भावन
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५३
दिखावट