सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरक्तपरीक्षानाम षष्ठ प्रकरणम् १३ the moment of Rakta, and as Raga does not exist in the moment of Rakta the possibility of both cannot be possible. So we cannot say the Rakta grows by depending on Raga. If on the other hand it is stated that Raga is non-existent before Rakta, then the position of the opponent is no better because if Raga is nonexistent it has got no capability to produce Rakta. Thus the position is like this-Raga cannot produce Rakta either in its position as before Rakta or after it. 1124 ॥ अत्राह, नैव हि रागरक्तयोः पौर्वापर्यंण संभवो यत इदं दूषणं स्यात्। किं तर्हि रागरक्तयोः सहैवोद्भवः । चित्तसहभूतन रागण हि चित्त रज्यते तच्च रक्तमिति। अतो विद्य ते, एव गगरक्ताविति । उच्यते, एवमपि- सहैव पुनरुद्ध तिर्न युक्ता रागरक्तयोः । सहोत्पादोऽपि न युक्तो रागरक्तयोः, यस्मात्- भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥३॥ सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः ॥ (प्रः पा) मञ्जु व्याख्या ननु माभूद्रागरक्तयोः पौर्वापर्यभावन समुत्पादः सहैव तु स्यात । तथाच चित्त न सहैवोत्पन्नः राग: चित्त रक्तीकरोति। एव सति रागरक्तयोः समुतपादः निर्वाध एव । तथाच रागरक्तयोः सहभू- हेतुत्वमेवावगम्यते। तथा चोक्तम्- 'सहभूर्ये मिथः फलाः। भूतबाक् चित्तानुबतिलक्षणलक्ष्यबत ॥ (कोशस्थान २।५०) तदाख्यायाञ्च स्कुटार्थकाराः आहुः सहभूहेतुस्ते धर्माः भवन्ति ये धर्माः मिथः फलाः परस्परफलेत्यर्थः। तस्माद्रागरक्तयोरस्तित्वं न निवा- रयितु शक्यते इति चेत , पत्रोच्यते, यदुक्त सहभूहेतुत्वं रागरक्तयो- रिति तत्तु न सङ्गच्छते यतो न केवलं युगपदुत्पत्तिरव सहभूहेतुत्व-