सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरक्तपरीक्षानाम षष्ठं प्रकरणम् ११ न ह्यसतां किञ्चित् सम्पादनसामर्थ्य दृष्ट लोके । न हि वन्ध्यापुत्रण तत्सुतो जन्यते। तथा च रागविना न रक्त इति वादिनः भवतः असत्यपि रागे रक्त परिकल्पना कथमपि न युज्यते। अतो महतापि प्रयासेन रक्तसिद्धि न भवेत्। एतच्चान द्रष्टव्यं रागं विना न रक्तः इत्युक्त्वा रक्तकारणं राग इत्येव तात्पर्य्यमवगम्यते। किन्तु रागस्य रक्तजनकत्वमेव न विचार- सहम् । तथाहि रागः किं सन्त रक्त' जनयति उत असन्तं रक्तं जनयति। आद्य कल्प स्वात्मना विद्यमानस्य वस्तुनः पुनरुत्पत्ती प्रयोजनाभावात् जन्यत्वमेव रक्ते न सिध्यति । तथा च रागस्य रक्त- जनकत्व कथङ्कारं सिध्येत् ? द्वितीयः कल्पः गृह्यते चेत् रागस्य रक्त- जनकत्व तथापि न घटते असतः समुत्पादनासम्भवात् । न च स्फटिकमणेजवाकुसुमसानिध्यात् लौहित्यवत, प्रागनवस्थितमपि रक' रागवशात् सिध्यतीति वाच्यं, स्फटिके तादृशलौहित्यस्य वस्तुतो- ऽनवस्थिततया तदुत्पत्त: भ्रान्तत्वात केवलं प्रतीयमानत्वमात्रम् । नहि प्रतीतिमात्र ण व भवति वस्तुसिद्धिः। शुक्तिकायामपि प्रतीति- विषयतामापन्नस्य रजतस्य वस्तुसत्त्वप्रसङ्गात्। अपि च अरक्तमपि रागयोगात रक्तमित्यङ्गीकार अशीतस्यापि बङ्गः कदाचित किञ्चिद्योगात शीतत्वापत्तिः दुष्परिहार: स्यात । तथा च अतत्- ma स्वभावस्य कथमपि तद्रू पापादन नैव स्वीकत्तुं शक्यते। तस्माद- रक्तमेव चित्तचेत न कथमपि तत्र रागेण रक्तभावः । स्वभावतो रक्तमेव यदि चित्त तदा तु खभावस्य यावद्द व्यभावित्वेन तस्य आगन्तुकेन रागेण उत्पादनं नैव युक्तिसिद्धमिति राग विना न रक्त- मित्यनयो वाक्यभङ्गया रक्तव्यवस्थापन न सम्भवति । तस्मादाग- रक्तयोः पूर्वापरभावकल्पनन कथमपि न तयोः सिद्धिः सिद्धान्तिता स्यादिति स्थितम् ॥२॥ otater :-94757 atst 596 43771 Sattel 920 9499797 afaca stiga ca, atst fajar as 3191759 falas patè i poats ge 175 1765 $817917111 at aft137750 1999 172779