१० मूलमध्यमककारिका । रागऽसति पुना रक्तः कुत एव भविष्यति, इति। तस्माद्रतोपि नास्ति ।' रागरक्तताभावाच्च स्कन्धादयोऽपि न सन्तौति ॥ (प्रः पा:) मञ्जु व्याख्या 03 ननु निराश्रयतया रागः प्रतिषिद्धः रक्तस्तु पुनर्नेव निराकृतः । तथा च अनिराकृतस्य रतस्य अविनाभावितया रागः सिध्यति, राग विना रक्तः नैव उपपद्यते इति तु प्रसिद्धमेव। एवं सति अनिराकृतन रक्तेन तदविनाभाविनः रागस्य सिद्ध : रागनिराकरणं नैव सम्भवेदिति चेदत्रोच्यते, राग विना न रक्त एवम्वादिनोऽपि भवतः कोऽभिप्रायः ? किं सति राग रक्तः उत असति रागे रक्त इति ? तत्रापि आद्य कल्प गृह्यमाने रक्तात् पूर्वमेव रागस्य विद्यमानता वोकर्त्तव्या स्यात् । तथा सति रक्ताविद्यमान कालोनं रागं प्रतीत्य रत्तो भवेदित्यायातम् । तदेव तु न घटते, तदसत्त्वकालीनस्य तत्प्राप्त्यसम्भवात् । न हि विभिन्न कालीनयोः हेमन्तिकनिदाघजकुसुमयोरिव वस्तुनो प्राप्तिरस्ति लोके । असति च पुनः रागे तदविनाभाविनो रक्तस्य आत्मलाभ एव न सम्भवे- दित्याशयेनाह–सति वा सतीत्यादि। रक्तात् पूर्व रागे सति येन क्रमेण रागपूर्ववर्तिणो रक्तस्य रागाश्रयत्व निराकृतं स एव क्रमः अत्रापि समुदाहर्त्तव्यः। तथा च 'रक्ताद्यदि भवेत् पूर्व रत्तो रागतिरस्कृत:' इत्येव परिकल्पनीयं स्यात्, रक्तप्राग्वतिनो रागस्य रक्तराहित्यमेव तदा प्रतिपन्न भवेत्। तथाल्व तु रक्तासत्त्वकालीनस्य रागस्य तत्- परवर्तिणो रतन कथमपि सम्बन्धासम्भवात् 'रागं विना न रत' इति भवदभिमतं दत्तजलाञ्जलिः स्यात् । न हि पृथक्कालौनतया परस्परास्पृष्टयोर्वस्तुनो कार्यकारणभावो वा आधाराधेयभावो वा कथमपि कल्पयितुं शक्यः । तथा च रक्तात् पूर्व रागे सति रक्त इति नैव युज्यते वक्तुम् । अथ यदि असति रागे रक्त इति परिकल्प्येत तदापि पूर्ववदेव छिन्नमूलं भवन्मतम् । तथाच रागेऽसति पुना रक्तः कुत एव भविष्य- तौति समुत्तरं स्यात्। असता रागण नैव रक्तः सम्पादयितुं शक्यते ।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/३४
दिखावट