रागरक्तपरीक्षानाम षष्ठ' प्रकरणम् ५ विचारणया यदि रागाश्रय एव न सिध्यति सुतरामेव तदा निराधारस्य रागस्यापि सत्त्वन प्रतिपादयितु शक्यते। तस्मादादौ रागाश्रयपरी- क्षणमेव समुचितम् । अन्यच्चदं द्रष्टव्य राग विना यथा न रक्तः सिध्यति तथा रक्तमन्त- रेणापि रागस्य किञ्चित् नास्ति प्रमाणम् । एवञ्च दिदमपि विचारणीय यत् किमादी रक्तस्ततो रागः, उत रागानन्तरमेव रक्तः । कोदृशश्चानयोः पूर्वापरीभावः । अथवा रागरक्ती युगपदेवोत्पन्नौ । तत्र यदि आदावेव । रक्त इत्यङ्गीक्रियते तदैव रक्त चित्त रागावस्थिति: सम्भवेत् । तथात्वे तु अवश्यमेव रागात् पूर्व रागरहितदशायामपि रक्तस्य सिविरङ्गी- कर्तव्या। एव' सति विना रागन रक्त इत्येव वक्तु शक्यते रागाऽ- सत्त ऽपि रक्तस्य सिद्या व्यतिरेकव्यभिचारण रतजनकस्य राग असिद्ध: । एवमादौ रागस्ततो रक्तमित्यपि साधयितु न शक्यते । तथा सति रक्तपूर्वकालीनसत्ताकस्य रागस्य रक्तशून्यकालीनत्वेन रक्तमेव चित्त रागाश्रय इति नियमासम्भवात् अरताधिकरणेन रागण स्वाश्रयस्य रत्तीकरणकल्पना नियुक्तिकत्वान्नैव युज्यते। नानोलाधिकरणकं पीत " खाश्रय नीलं करोतीति केनापि ग्राह्यते । तथा युगपदुत्पन्नयोः सव्येतरविषाणयोरिव रागरक्तयोव परस्परा- पेक्षत्वमिति न कथमपि रागरक्तपरिकल्पना युक्ता। सुतरामेव तन्मूल- कतया स्कन्धायतनधातूनामपि सत्त्वासम्पादनप्रयासशुवैव मनोरथमात्र- मिति प्रतिपादयिष्यन् आदी रागाधिकरणपरीक्षाभिप्रायेणाह-रागा- द्यदीत्यादि। आसक्त्यध्यवसानसंज्ञाभिनिवेशपर्यायको हि राग: कि सति रक्त तिष्ठति असति वा रक्त तिष्ठति। तत्र यदि प्रथमः कल्पः गृह्यते तदा रागात् पूर्वमेव रक्तस्य विद्यमानता अङ्गीकार्या। तथात्वे तु रागात पूर्ववर्तिनो रक्तस्य रागशून्यताकालीनत्वमभ्युपतव्यमिति रत्तो रागतिरस्कृतः रागरहितः इति सिध्यति । एवं सति रागमन्तरेणापि रक्तसिद्ध्या पृथिव्याः खरस्वभावत्वमिव चित्तस्यापि रक्तभावः स्खलक्षण: स्यादिति न रागजन्यत्व रक्तो व्यवस्थापयितु पार्यत रागातिरिक्त- कारणान्तरजन्यत्वस्य रक्त असिया अगत्या रक्तभावसा खाभाविकत्वात्। -
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२९
दिखावट