कसम्बन्धस्य क्रियोत्पत्तेः कारणतया सव्येतरविषाणयोरिव युगपदुत्- पन्नयोः कार्यकारणभावासम्भवाच कर्चसम्बन्धकियोत्पत्त्योः योग- पद्यासमभवात्। किञ्च उत्पत्तेः उत्पत्तिरस्ति नास्ति वा ? उत्पत्त: उत्पत्त्यन्तराशीकार तस्या अपि अन्या इति रीत्या अनवस्थाप्रसङ्गो दुर्वारः। यदि पुनरुत्पत्तरुत्पत्तिः नास्ति, तर्हि चिरस्थायिन्याः उत्पत्तेः सर्वदैव सत्त्वात् वस्तूत्पत्तरपि नित्यत्वमायातमेव तच्चानिष्टम् । अतो वस्तुगत्या कार्यानामुत्पत्तिरेव स्थापयितुं न शक्यते। तदुक्तम्- अनुत्पन्नोऽयमुत्पादः खात्मना जनयेत् कथम् । अथोत्पन्नो जनयते जातः किं जन्यते पुनः ॥ नोत्पद्यमानं नोत्पन्न नानूत्पन्नं कथञ्चन । उत्पद्यते तथा ख्यातं गम्यमान गतागतैः॥ एतत्तु सप्तमे प्रकरणे विस्तरेण प्रतिपादितम् । अतएव माध्यमिकानां मते कार्यकारणभावानुपपत्तिबलात् वस्तूनां सत्त्वमसत्त्वं वा न प्रमाणितं भवितुमर्हति। अन्यदपि चिन्तनीयं, “यदि सत्त्वमेव वस्तुस्वभावः स्यात् तर्हि सत्त्वस्य वस्तुत्वसमनियततया यत्रैव किञ्चिहस्तु तत्रैव सत्त्वन भवितव्यम् । एवञ्चत् मरुमरीचिकादावपि वस्तुत्वेन प्रतीयमानतया सत्त्वमास्थयम् । सत्त्वस्य च अर्थ कियाकारित्वनियमात् मृगटष्णिका- दीनाञ्च पुनः सानपानाद्यर्थकियासाधकत्वादर्शनात् सत्त्व' नास्तीति सर्वेरेवानुज्ञातम् । न च तत्र सूर्यकिरणसन्तापवालुकादीनां सत्त्व, कल्पितानामम्भसामसत्त्वमिति वाच्य, एकज्ञानविषयीभूतानां क्वचिदंश सत्त्व क्वचिदंशी असत्वञ्चति अर्धजरतीयन्यायकल्पना अदष्टचरी असम्भाविनीति विहद्भिः सुविदितमेतत् । तर्हि प्रतीयमानानां सर्वेषामसत्त्वमिति चेत्, नहि तयुक्तम्, पुरोऽवस्थितानां दृश्यमानत्व न दृश्यमानत्वस्य च सत्त्वसमनियततया सुतरामवासत्वविरोधित्वात्। नहि अत्यन्तमसतां बध्यापुत्रादीनां क्वचिदपि दृश्यत्व प्रसिद्ध लोके।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५
दिखावट