सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि पुनरभिव्यक्तरभिव्यक्तार्थमपि कर्त व्यापारस्य प्रयोजनमनुभ्यते तहि अभिव्यक्तरपि अभिव्यक्ताङ्गीकार तस्या अपि अन्या तस्या अपि अन्या इत्यनया रीत्या अनवस्थाप्रसङ्गो दुर्वार एव स्यात्। अतः चेष्टा- शतनापि न सांख्योक्ताकार्यकारणभावपद्धतिः सुसङ्गता। सुतरां कार्य- मुत्पत्तेः प्राक सदिति पक्षः निराकृत एव ॥ अथ परतः कार्य्यमुत्पद्यते इति पक्षश्चेत्, तथापि कार्यकारण- भावानुपपत्तिरेव स्यात् । तथाहि उत्पत्तेः प्राक् असदेव कार्य स्वस्मादत्यन्तभिन्नात् कारणात् कर्तव्यापारादिवशेन आत्मानं लभते इति असत्कार्यवादिनां सिद्धान्तः। तत्रेदमुच्यते, स्वप्रतियोगिक- भेदवतः खात्यन्ताभाववतो वा कारणात् कार्य यदि उत्पद्यते तर्हि प्रतिनियत कार्यकारणव्यवस्था न स्यात्। दृश्यते च तिलभ्य एव तैलमुत्पद्यते, न सिकताभ्यः। असत्कार्यवादिनये तु कार्यकारण- नैयत्यसाधिका कापि युक्तिः प्रमाणयितुं न शक्यते। तथाहि उत्पत्तेः प्राक् तैलं यदि तिलेषु अन्यन्तमसदेव स्यात् तर्हि तिलभ्य एव तैल- मुत्पद्यते इत्यत्र का विनिगमना १ तैलात्यन्तभाववाः सिकताभ्यः कथं तैलं नोत्पद्यते। तिलसिकतयोः तैलासत्त्ववत्ता तुल्यैव। एवञ्च नहि चेष्टाशतेनापि असतः सत्त्वमापादयितुं शक्यते केनापि । नहि गगनकमलिनोसत्त्व कदाचिदपि प्रतिपादयितं स्वयं विधानापि शक्यते । तस्मात् परतः कार्यमुत्पद्यते इत्यपि न युक्तिसह: पक्षः। अत्रेद चिन्त्य, वस्तुगत्या तु सहा असहा कदाचिदपि उत्पद्यते इत्येवं न प्रमाणयितुं शक्यते। तथाच उत्पत्तिक्रियया सह तत्र कर्तृभूतस्य वस्तुनः कदा सम्बन्धो भवेत् इति विचारणीयः। न स्थुत्पत्तिक्रियायाः उत्पत्तेः प्रागव वस्तुना सह सम्बद्धो भवितव्यः । तथा सति विनवोत्पत्तिक्रियां बस्तु समुत्पन्नमिति उत्पत्तिकल्पनमनर्थ कमेव स्यात्। न च उत्पत्तिक्रियायाः उत्पत्त्यनत्तरं वस्तुना सह तत्सम्बद्धः कल्पनीयः कत्तभूतस्य वस्तुनः सम्वन्धमनासादयन्ताः उत्पत्तिक्रियायाः उत्पत्त रेवासम्भवात्। कञ्जुसम्वन्धं विना क्रियात्वासिद्धः। न च उत्पत्तिक्रियायाः समकालमेव तत्कनभूतस्य वस्तुनः सम्वन्धः सङ्गच्छते