संस्कृतपरीक्षानाम सप्तमं प्रकरणम् ११३ अपि चायं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा, उभयथा च न युज्यते इत्याह। मञजुव्याख्या ॥ तत्र उत्पादस्थितिखण्डनानन्त साम्प्रतं विनाशखण्डनमारभते । पूर्वपक्षिणामयमाशयः। अनुत्पन्नानां भावानां विनाशासम्भवात् विनाशिनां भवानां उत्पत्तिरस्त्येव इति सिद्धम् । मरणापरनामधेयस्य विनाशस्य च सर्वानुभवसिद्धतया अवश्यमेव तत् खोकर्त्तव्यम्। अस्ति हि शास्त्रविचारचातुरीरहितानामपि हालिकादीनां नियते नश्यतीत्या- द्यनुभवः प्रसिद्धः। ऋते च विनाशं न तादृशानुभवः कथमपि सिध्यति । पुरुषबुद्ध वस्तुतन्त्रसापेक्षतया व्यवहारस्य च अनुभवसाक्षि- कत्वन तथाविधव्यवहारणैव तज्जनकानुभवविषयवस्तुसिद्धिर्भवेदिति स्त्रियत नश्यतीति व्यवहारिणेव विनाशसिद्धिः । सिद्धच विनाश तदविनाभावितया उत्पादोऽपि सिद्धो भवेत् । तथा चायं प्रयोगः संकता भावाः उत्पादवन्तः आवत्वे सति विनाथित्वात् यन्नैवं तन्वं यथा आकाशम् । एवञ्च सति विद्यन्ते एव उत्पादस्थितिभङ्गा इति । अत्रोच्यते, विनाशो नाम कथं भवेत् ? किं निरुध्यमानस्य विनाशः, उत निरुद्धस्य विनाशः अथवा अनिरुध्यमानस्य विनाशः । तत्राद्य कल्पे निरुध्यमानं निरोधेनाक्रान्तमित्येवं खोकर्त्तव्यम् । तथाच सति निरोधाकान्ततया निरुद्धान्तर्गतत्वमेव स्यात्तस्य नतु निरुद्धमानत्वम् । यदि च निरोधनानाक्रान्त वस्तु तदा कथमपि तस्य न निरोधः सम्भवति, निरोधनानाक्रान्तस्य भवन्मतेपि असंस्कृतत्वात् न तस्य निरोधः सम्भवति। अनिरुद्ध यहस्तु तस्य अनिरुद्धत्वमेव खभाव इति चेत् कथमपि न तत्र निरोधः सम्भवति। एतदेवाह निरुध्यते इति। तथाच अनिरुद्ध यक्षस्तु तत् निरोधरहितमेवेत्यायाति । तादृशस्यापि असंस्कृतत्वपक्षान्तर्भुततया कथमपि न तत्र निरोधः १५ नाम तथाच
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३७
दिखावट