सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० मूलमध्यमककारिका इत्यादिना यथोत्पाद आत्मानं न जनयति इत्युक्तमेवं स्थितिरपि नात्मानं स्थापयति इति वक्तव्यम् । अस्थिता रिथतिरेषा (चेत्) स्वात्मानं स्थापयेत् कथम् । स्थिता चेत स्थापयत्यषा स्थितायां स्थापयत्यथ किम् । इति योज्यम् । यथा च अन्य उत्पादयत्येनं यद्य त्पादोऽनवस्थितिः, इत्युत्पादे ब्याख्यातमेवं स्थितावपि व्याख्येयम् । अथान्या स्थापयत्येनां स्थितिबद्यनवस्थितिः इति । एवं स्थितिरपि न युक्ता । अतएवोक्तं भगवता अस्थिता हि इमे धीः स्थितिश्चैषां न विद्यते । अस्थितिः स्थितिशब्देन रवमावेन न विद्यते ॥ न स्थितिनीपि चो जातिलॊकनाथेन देशिता । लोकनाथं विदित्वैवं समाधिं तेन जानथा ॥ उक्त चार्यसचर्यगाथासु। आकाशनिश्रित समारत आपखन्धो तनिश्रिता इय महा पृथिवी जगच्च । सत्त्वान कर्म उपभोगनिदानमेवं आकाशथानु कृतचित्तम् एतमर्थम् ॥ यावत् स्थानुन्मथानु अयुथानु जिनन उक्तो इति विस्तरः । मञ्जु व्याख्या। ननु स्थितः स्थितिवर्तते न वा? स्थितर्यदि स्थितिः स्यात् तदा तस्या अपि अपरा स्थितिः पुनस्तस्याऽपि अपरा इत्यनया रोत्या अनवस्थादोषः प्रसज्येत। यदि स्थितः स्थितिनं स्यात् तर्हि अस्थिता