9 १०४ मूलमध्यमककारिका सुतरां उत्पादः अस्तीति सुदृढ़ भवेत् । एवञ्च स्थितिसद्भावे तस्या उत्पाद- कर्तव्यतया वृथैव भवतामुत्पादखण्डनप्रयास इति चेत् । उच्यते, नैतत समीचीन' भवद्भिरभिहितम्। स्थितिसहावन उत्पादसत्ता प्रतिपादयितुकामो भवान् पृष्टः खलु व्याचष्टां, भवदभिमतस्थितिराश्रयः तावत् किम् वस्तु । किं स्थिते वस्तुनि स्थितिवर्तते, अस्थिते वा? आद्य पक्षे स्थितियोगात प्रागव वस्तु स्थितमिति सिद्धान्तस्य कर्तव्य- तया तत्र पुनः स्थितिकल्पन' निरर्थकमेव स्यात् । स्थितिरहित च वस्तु अस्थितमिति लत्वा नहि अस्थिते वस्तुनि कचिदपि स्थितियोगः सम्भवति । अन्यच्च, किं तिष्ठमाने वस्तुनि स्थितियोगः ? कि वा अस्थिते ? अर्थात अतीताध्वनि प्रविष्टे स्थितियोगः उक्तः, स्थास्य- माने वस्तुनि वा स्थितियोग: ? तत्र अतीत वस्तुनि साम्प्रत स्थितियोगः न सम्भवति, अतीतवर्तमानयोर्विरोधात् । न वा अनागत वस्तुनि स्थितियोगः, तथैव विरोधात् । अतीतानागत' विहाय च तिष्ठमानस्य वस्तुनः असम्भवात तिष्ठमाने वस्तुनि स्थितियोगः इत्यपि नैव युज्यते। तस्मात स्थितिरेव न परिकल्पयितु शक्यते इति स्थितिखण्डनाभिप्रायेणाह नेति। स्थितः भावः यस्य स स्थितभावः, स्थितियुक्त इत्यर्थः। तथाच स्थितियुक्तस्य वस्तुनः अतीततया तत्र तिष्ठतीति प्रयोगो नैव उपपद्यते, नवा स्थितिरहिते वस्तुनि तिष्ठनीति प्रयोगः सम्भवति, स्थितिशूण्यत्वात् । तिष्ठमानं वस्तु तिष्ठतीति प्रयोगः वृथैव स्यात् तिष्ठमानइति प्रत्ययनैव वर्तमानकालघटिततया तदर्थ प्रतिपादनात्। तथाच तिष्ठतीति प्रयोगमन्तरण स्थितेः प्रमाणान्तरं नास्तीति तिष्ठतिप्रयोगासम्भवे स्थितिरेव न प्रतिपादिता भवेत् । इदमत्र तात्पर्य म्, उतपन्नस्य वर्तमानागतातोतरूपत्नध्वप्रविष्ठत्वमेव भवतामभिमतम । तत्र नातीतस्य तिष्ठतोति प्रयोगः सम्भवति, नवा अनागतस्य, नवा वर्तमानस्येति । तिष्ठमान इत्यनेनैव वर्तमानकाल- बोधनात् पुनवर्तमानघटितपदस्य प्रयोगानईत्वात्। नच अनुत्पन्न वस्तु तिष्ठतीति भवभिरपि अङ्गोवयिते। तस्मान्न उत्पन्नस्य ना वानुत्पन्नस्य स्थितिः सम्भवतीति ॥ २२ ॥ कल्पनाया: .
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२८
दिखावट