सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 मूलमध्यमककारिका मजुव्याख्या ॥ 1- ननु उत्पद्यमानमेव यदि न स्यात् तर्हि उत्पद्यते इति कथम् । घट: उत्पद्यते इति प्रयोगस्तु सर्वजनानुभवसिद्धतया न खण्डयितु शक्यते । नहि युक्तिबलात् वस्त्वन्यथा भवति, अपितु वस्तुगतिमनु- रुधव युत्रिरुद्भावनोया। तथा च उत्पत्तिर्नाम काचित् क्रिया अस्तीति सर्वजनानुभवसिद्धतया न सा अनङ्गीकर्तुं शक्यते । एवञ्च क्रिया सर्बदैव किञ्चिव्यात्रितति नियमात् उत्पत्तिक्रियाया आश्रयत्व न घटादोनामुत्पद्यमानतावश्यमभ्युपेतव्या। तथाच घटोत्- । पत्ति प्रतीत्य घटस्य समुत्पादः निर्वाध एव । अत्र का भवतां नियुक्ति- कपद्धतिरिति चेदनोच्यते, उत्पत्तिक्रियायाः आश्रयत्वेनाभिमतं घटादिकं तादृशक्रियायाः प्राक् विद्यमानमविद्यमानम्वा ? यदि च तक्रिया- पूर्ववर्तितया घटादयोऽङ्गीक्रियन्ते तहि उत्पत्तिक्रियायाः किमिह फल प्रसूयते। नहि विद्यमानस्य उत्पत्तिक्रियया किमपि प्रयोजनमस्ति लोके । नहि भवति विद्यमानः घटः समुत्पद्यते इति । अथाविद्यमानमेव घटादिकमिति चेत्, तर्हि निराधारतया सा क्रिया नैव स्थातुं शक्नुयात् । न ह्यसन्त वध्यातनयमाश्रित्य कापि क्रिया स्थातं शक्नोति। तस्मात् उत्पत्तिर्नाम क्रिया सर्वथा निरर्थकैव इति कथं भवतः प्रतीत्यसमुत्पाद- सिद्धिरित्याशयेनाह यदीति । अनायमाशयः। उत्पत्तिक्रियाश्रयात् प्राक् तदाश्रयेणाभिमतः घटः यदि नाम विद्यमान एव खोकियत, तदैव उत्पत्तिर्नाम क्रिया त घटमाश्रयितु शक्नोति । एवञ्चत् भवदभि- मतस्तादृशो घट: क्रियायाः प्राक् उत्पन्नः अनुत्पन्नो वा इति वक्तव्यम् । उत्पनश्चेत् पून!त्पादस्य किमपि प्रयोजन तत्र अस्तीति उत्पत्तिक्रिया तेन घटेन न कथमपि सम्बध्यते। अनुत्पन्नश्चेत् उत्पत्तिक्रियाशून्यतया तस्य निष्क्रियत्वमेविति कथ निष्क्रिये वस्तुनि उत्पत्तिविया स्थातुं शक्नुयात्, निष्क्रियेण क्रियाया विरोधात् । तथाच उत्पादनात् पूर्व सत्त्व असत्त्वे वा कथमपि उत्पत्तिकियाधारता न सफलेति नोत्पद्यमानमेव सिध्यति ॥