सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका सतीदं भवति ; अस्योत्पादादिदमुत्पद्यते। यदुताविद्यप्रत्ययाः सस्कारा इत्याद्यविपरीत प्रतीत्यसमुत्पाद प्रकटयता। तस्य च त्वया नोत्पद्यमान नोत्पन्न नानुत्पन्नमित्यादिना दूषणं विदधता तथागत- जनन्याः प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्यल भवता सर्व- नास्तिकेन त्वयेति। उच्यते, नाह सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातर' निहन्मि। भवानव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहा- हिपरीत तदर्थमवधा-स्माकमेवाधियलयं करोति । ननु चेदं प्रतीत्येद भवतीत्येवमभिधानन भगवता तथागतेन निःस्वभावत्वमेव सर्वधर्माणां स्पष्टमावदितम् । यस्मात्- मजुव्याख्या ॥ ननु उत्पद्यमान उत्पन्नानुत्पन्नातिरिक्त नास्तीति यदुक्त तन्न सङ्गच्छते, यत उत्पत्तिर्नाम काचित् क्रिया अस्तीति अवश्यमेव खीकरणीयम् । अन्यथा उत्पाद एव न सम्भवति । सा च क्रिया अवश्यमेव यदा कदाचिदपि केनचित् युक्ता भवेत्। यदा तु उत्पत्ति- क्रियायुक्त भवति वस्तु तदेवोत्पद्यमानमिति व्यपदेष्टुं शक्यते । तथा च उत्पत्ति प्रतीत्य यः समुत्पादः स एव उत्पद्यमानतया निर्धा- यंते। तस्माद् अस्त्येवोत्पद्यमानमुत्पत्तिक्रियासमन्वितमिति तदेव च उत्पदाते। तस्माद् उत्पाद उत्पद्यमानमुत्पादयति इति सिद्ध- मिति चेत्, उच्यते उत्पदामानमिति । उत्पत्ति प्रतीत्य समुत्पाद इति यदुक्त तत्रैव भवान् पृष्ठो वदतु, कस्य उत्पत्ति' प्रतीत्यसमुत्पादो भवेत्। यदि स्वस्य उत्पत्ति प्रतीत्य- समुत्पाद इति तदा उत्पद्यमान अतौताध्वप्रविष्टमेव स्यात्। नहि स्वातिरिक्तस्य उत्पत्ति प्राप्य स्वयमुत्पद्यते इति सम्भवति। तस्माद यदि स्वस्य उत्पत्ति प्राप्य इत्येव खोकर्त्तव्य स्यात्तदा विद्यमानस्यैव खस्य पुनरुत्पत्तिकल्पन' अनर्थकमेव स्यात् । तस्मात न भवतो युक्ति