१ > सीका कायाः, भजपत अजैकपाद् महादेवभेदः पूर्वाभाद्रपदायाः, अहिर्बुध्न्यः उत्तराभाद्रपदायाः, पूषा सूर्यभेदो रेवत्याः, इत्यष्टाविंशतिदेवतास्तन्नामा मानां नामानि करप्यानि ॥४॥ परादिसंझाविचारः। स्वात्यादित्यहरित्रयं चरचलं धात्रोत्तराशुस्थिरा रोमं पितृपूर्विकान्तकमथ द्वीशानले मिश्रके। हस्तेज्याश्व्यभिजिल्लघुर्मगशिरश्चित्रात्यमैत्रं मृदु ज्येष्ठाोरंगमूलमेतदुदितं तीक्ष्णं शशीनारतः ॥५॥ स्वातिः, आदित्यम् अदितेरिदमादित्यं पुनर्वसुः, हारत्रयं हरिशन्देन हरिमं श्रवणो ग्राह्यः । इदं सांकेतिक शास्त्रं नामैकदेशग्रहणे नामग्रहणम् । श्रवणत्रयं श्रवणधनिष्ठाशततारा एतत् नक्षत्रपंचकं चरचलसंज्ञं भवति । धात्र रोहिणी उतरास्तिन एताः ध्रु ध्रुवाः स्थिराश्च भवति । पितृमघा- पूर्विकास्तिसः अन्तकं भरणी एतत्पश्चकं क्रूरमुप्रसंज्ञं भवति । अथ द्वीशं विशाखा अनलं कृत्तिका एते मिश्रसंज्ञे, हस्तः ईज्यं पुष्यः अश्वि अश्विनी अभिजित् अयं गणो लघुर्भवति, मृगशिरः चित्रा अन्त्य रेवती मैत्रमनुराधा एतत् चतुष्कं मृदु । ज्येष्ठा आर्द्रा उरगमालेषा मूलं एतत्तीक्ष्णम् उदितं कथितं नामसप्तकं चरचलादि एतत्, शशी चन्द्रः इनः सूर्यः आरो मोमः, ततो ऽयं एतदुक्तं भवति चंद्रश्चलश्वरः, रविः स्थिरो भुवः, मौलः क्रूरोपः, बुधो मित्रः, गुरुर्लधुः, शुक्रो मृदुः, शनि स्तीक्ष्णः, एवं नक्षत्रनामानि । तथोक्तम्-'रविः स्थिरः शीतकरश्चरश्च .
पृष्ठम्:मुहूर्तदीपकः.pdf/७
दिखावट