पुटमेतत् सुपुष्टितम्
५१
॥ मालविकाग्निमित्रम् ॥
- मालविका । [१]किं अप्पणो छन्देण मन्तेसि ।
- बकुलावलिका । ण[२] हि । भट्टिणो एदाइं पण अमआइं अख्खराइं बिम्बन्तरिदाइं ।
- मालविका । [३]हला देविं विचिन्तिअ ण मे हिअअस्स पहविस्सं ।
- बकुलावलिका। [४]मुध्धे भमरसंबध्धोत्ति वसन्दावदारसंव्वस्सो 5
- ण चूदपल्लवो किं ओदंसइदव्वो ।
- मालविका । [५]तुमं दाव दुज्जादे मे अच्चन्तसाहाइणी होहि ।
- बकुलावलिका । [६]विमद्दसुरही बउलावलिआ ख्खु अहं ।
- राजा। साधु बकुलावलिके साधु ।
- भावज्ञानानन्तरं प्रस्तुतेन
- प्रत्याख्याने दत्तयुक्तोत्तरेण ।
- वाक्येनेयं स्थापिता स्वे निदेशे
- स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥
|
|
- ↑ किमात्मनश्छन्देन मन्त्रयसि ।
- ↑ न हि । भर्तुरेतानि प्रणयमयान्यक्षराणि बिम्बान्तरितानि ।
- ↑ हला देवीं विचिन्त्य न मे हृदयस्य प्रभविष्यामि ।
- ↑ मुग्धे भ्रमरसंबद्ध इति वसन्तावतारसर्वस्वो न चूतपल्लवः किमवतंसयितव्यः ।
- ↑ त्वं तावद्दुर्जाते मेत्यन्तसाहाय्यकारिणी भव ।
- ↑ विमर्दसुरभिर्बकुलावलिका खल्वहम् ।