पृष्ठम्:मालविकाग्निमित्रम्.djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ प्रथमाङ्कः ॥
देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ ४ ॥

बकु० । उपगम्य । 1अज्ज वन्दामि ।
गण० । भद्रे चिरं जीव ।
बकु० । 2अज्ज देवी पुछ्छदि । अवि उवदेसग्गहणे णादिकिलिसेदि वो सिस्सा मालविएत्ति ।
गण० । विभाव्यतां देवि परमनिपुणा मेधाविनी चेति । किं बहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ६ ॥
बकु० । आत्मगतम् । 3अदिक्कमन्तीं विअ इरावतीं पेख्खामि । प्रकाशम् ।
किदथ्था दाणिं वो सिस्सा । जस्सिं गुरुअणो एव्वं तुस्सदि ।
गण० । भद्रे तद्विधानामसुलभत्वात्पृच्छामि । कुतो देव्यास्तत्पात्रमानीतम् ।

१ आर्य वन्दे ।
२ आर्य देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्नाति वः शिष्या मालविकेति ।
३ अतिक्रामन्तीमिवेरावतीं प्रेक्षे । कृतार्थेदानीं वः शिष्या । यस्यां गुरुजन एवं तुष्यति ।

2. F स्वाङ्गैर्वि
5. D E F अ-अ
7. D E F अ-अ-- F णादिकिलि-
स्सदि.
9. F विज्ञाप्यताम् for विभाव्यताम्
11. B उद्दिश्यते.
14. F दाणीं- B एव्व.
16. F आयातं for आनीतम्.