पृष्ठम्:मालविकाग्निमित्रम्.djvu/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ प्रथमोङ्कः॥

सूत्र.0 अयि विवेकविश्रान्तमभिहितम् । पश्य ।

पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥

पारि. । आर्यमिश्राः प्रमाणम् ।
सूत्र. । तेन हि त्वरतां भवान् ।

शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवादक्षः परिजनोयम् ॥ ३ ॥

[निष्क्रान्तो ।

॥ प्रस्तावना ॥
। ततः प्रविशति चेटी ।

चेटी । आणत्तम्हि देविए धारिणीए अईरप्पउत्तोवदेसं चलिअं णाम णट्टअं अन्दरेण कीरिसी मालविएत्ति णट्टाआरिअं अज्जगणदासं पुछ्छिदुं । ता जाव संगीदसालं गछ्छेमि । इति परिक्रामति

। प्रविशत्यपरा चेट्याभरणहस्ता ।

प्रथमा । अन्यां दृष्ट्वा । हला कोमुदीए कुदो दे इअं धीरदा । जं समीवेवि अदिक्कमन्ती इदो दिठ्ठिं ण देसि ।


१. आज्ञप्तास्मि देव्या धारिण्याचिरप्रवृत्तोपदेशं चलितं नाम नाट्यमन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तद्यावन्संगीतशालां गच्छामि । २- हला कौमुदिके कुतस्त इयं धीरता । यत्समीपेप्यतिक्रामन्तीतो दृष्टिं न ददासि ।


14. A C चलीअं; D चलीयं-A c A B CDE om. a before जाव. णाट्टअं; B D णट्ठअं—F' अन्तरेण- | 16. B D E गच्छम्मि; Fगच्छामि- B C मलविअंति; D F ' | 17. F adds ततः before y« प्रविशति." मालविअत्तिः | 18. A BcD E om. दे—' धीरद 15A cअभ; B D E F अ-भ°. 19. B अदिक्कमनी-A C न देसि .