पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
॥ पञ्चमोङ्कः ॥
प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती ।
स्नानीयवस्त्रक्रियया पलोर्णं वोपयुज्यते ॥ १2 ॥ ।
धारिणी । १भअवदि तुए अभिजणवादिं मालविअं
अणाचख्खन्तीए असंपदं किदं ।
परिव्राजिका । शान्तं पापं शान्तं पापम् । कारणेन खलु
मया नैभृत्यमवलम्बितम् ।
धारिणी । २किं विअ अत्त कारणं।
राजा । यदि वक्तव्यं कथ्यताम् ।
परिव्राजिका । इयं पितरि जीवति केनापि लोकयात्रगतेन
सिध्दादेशेन साधुना मत्समक्षमादिष्टा संवत्सरमात्रं
प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति ।
तमवश्यं भाविनमादेशमस्यास्त्वत्पादशुश्रूषया
परिणमन्तमवेक्ष्य कालप्रतीक्षया मया तत्साधु कृतमिति पश्यामि ।
राजा । युक्तोपेक्षा ।

। प्रविश्य कञ्चुकी ।

कञ्चुकी । देव कथान्तरेणान्तरितमिदममात्यो विज्ञापयति ।

१. भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।
२. किमिवात्र कारणम् ।

2. Our MSS.पन्त्रोणेंवोपयुज्यते. We
with Tullberg.
4. E omits « किदं."
6. A B C D E नैर्भृत्यम्-
10. A B C आदिष्टम्.
12. F omits « अवश्यम."
16. B विज्ञापयामि for निवेदयामि.”