पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
॥ पञ्चमोङ्कः ॥
प्रथमा । जनान्तिकम् । १हला रअणिए अपुव्वं इमं राअउलं पविसन्तीए पसीदइ मे अभ्भन्दरगदो अप्पा ।
द्वितीया । २हञ्जे जोसणीए महवि एव्वं एव्व । अथ्थि ख्खु
एसो लोअवादो आआमि सुहं वा दुख्खं वा हिअअसमवथ्था कहेदित्ति ।
प्रथमा । ३सो सच्चो दाणिं णो होदु ।
कञ्चुकी । एष देव्या सह देवस्तिष्ठति । तावदुपसर्पेतां भवत्यौ ।

। उभे उपसर्पतः ।

10  । मालविका परिव्राजिका च चेव्यौ दृष्ठ्वा परस्परमवलोकयतः ।

उभे । प्रणिपत्य । ४जेदु भट्टा जेदु भट्टा । जेदु भट्टिणी जेदु भट्टिणी ।
राजा । स्वागतम् । इतो निषीदतम् ।
उभे । उपविष्टे ।

१. हला रर्जानके अपूर्वमिदं राजकुलं प्रविशन्त्याः प्रसीदति मेभ्यन्तरगत आत्मा ।
२. हञ्जे ज्योत्सिनके ममाप्येवमेव । अस्ति स्वत्वेष लोकवाद आगामि सुखं वा दुःखं वा
हृदयसमवस्था कथयतीति ।
३. स सत्य इदानोमावयोर्भवतु ।
४. जयतु भर्ता जयतु भर्ता । जयतु भट्टिनी जयतु भट्टिनी ।

2. A B D E F अभ्भन्तरं
3. A B C D E महवि अ एव्व
7. F उपसर्पताम्
11. A C D E F जेदु भट्टा । जेदु
भट्टिणी.