पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मालविकाग्निमित्रम् ७९

तदयमनुगृह्यतां चिरानुरक्तो जनः। इति संश्लेषमभिनयति ।
मालविका । नाट्येन परिहरति ।
राजा । आत्मगतम् । रमणीयः खलु नवाङ्गनानां मदनविषयव्या
पारः। एषा हि
हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं
हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १४ ॥

। ततः प्रविशतीरावतो

निपुणिका च ।

इरावती । १हञ्जे णिअणिए सच्चं तुह चन्दिआए संदिठ्ठं-
समुद्दधरालिन्दए अज्जगोदमो एआई दिठ्ठोत्ति ।
निपुणिका । २किं अण्णहा भट्टिणीए विण्णविदं ।
इरावती । ३तेण हि तहिं एव्व गछ्छामो संसआदो णिम्मुत्तं अज्जउत्तस्स पिअवअस्सं पिअं पुछ्छिदुं । च

१. हञ्जे निपुणिके सत्यं तव चन्द्रिकया संदिष्टं समुद्रगृहालिन्द आर्यगौतम एकाकी
दृष्ट इति ।
२. किमन्यथा भट्टिन्यै विज्ञापितम् ।

३. तेन हि तत्रैव गच्छावः संशयान्निर्मुक्तमार्यपुत्रस्य प्रियवयस्यं प्रियं प्रष्टुम् । च-


1. A B C DB omit भयम्."
3. F मदनविषयावतारः
5. A B C D F कम्पयती (कम्पयते ?)
-A BC D E ‘लोलांशुकम्.
7. F' नेत्रमुन्नमयतः
12. Our MSS. ०परए. We with G.
D E F अ=अ०॰
13. F अलीअं for अण्णहा.”
15. A B C D E अ for ‘‘ च."—
None of our MSS. read