पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
॥ मालविकाग्निमित्रम् ॥
राजा
उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १2॥
बकुलावलिका ।१अणुग्गहीदम्हि ।
विदूषकः । परिक्रम्य ससंभ्रमम् । २बउलावलिए एसो बालासोअरु-
ख्खस्स पल्लवाणि हरिणो लङ्घिदुं आअछ्छइ । ता एहि णिवारेम णं ।
बकुलावलिका । ३तह । प्रस्थिता । ।
राजा । एवमस्मद्रक्षणेवहितेन भवितव्यम् ।
विदूषकः । ४एंदवि गोदमो णं संदिस्सीअदि ।
बकुलावलिका । ५अज्जगोदम अहं अप्पआसे चिठ्ठामि । तुमं
दुवाररख्खओ होहि ।
विदूषकः । ६जुज्जइ ।

१. अनुगृहीतास्मि ।
२. बकुलावलिके एष बालाशोकवृक्षस्य पल्लवान्हरिणो लङ्घितुमागच्छति । तदेहि निवारयाम एनम् ।
३. तथा ।
४. एतदपि गौतमो ननु संदिश्यते ।
५. आर्यगौतम अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।
६. युज्यते।

4. A C D E अणुगाहि°; B अणुग्गहि.
5. A B C D E एस for “ एसो.”
6. Our MSS, पल्लवा. We with G.
10. F' एवंवि.–A B C D E omit
णं
11. E F अ-भ°.
13. D जूज्जइ; B जुज्जई.