पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
॥ चतुर्थोङ्कः ॥
राजा। मदनकातर्यं निरूपयति।
विदूषकः। १किं भवं उदासीणो विअ।
राजा। अविश्वसनीयत्वात्सख्यास्ते।
विदूषकः। २मा दाव अत्तहोदीअं तुह अविस्सासो।
राजा। श्रूयताम्।
पथि नयनयोः स्थित्वा स्वप्ने तिरोभवति क्षणात्
सरति सहसा बाह्वोर्मध्यं गताप्यबला सती।
मनसिजरुजा क्लिष्टस्यैवं समागममायया
कथमिव सखे विश्रब्धं स्यादिमां प्रति मे मनः॥११॥
बकुलावलिका। ३सहि बहुसो किल भट्टा विप्पलध्धो। दाव
एथ्थ विस्ससणिज्जो अप्पा करीअदु।
मालविका। ४सहि मम उण मन्दभाआए सिविणसमाअमोवि भट्टिणो दुल्लहो आसी।
बकुलावलिका। ५भट्टा देहि से उत्तरं।

१. किं भवानुदासीन इव।
२. मा तावदत्रभवत्यां तवाविश्वासः।
३. सखि वहुशः किल भर्ता विप्रलब्धः। तावदत्र विश्वसनीय आत्मा क्रियताम्।
४. सखि मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोपि भर्तुर्दुर्लभ आसीत्।
५. भर्तर्देह्यस्या उत्तरम्।

2. A उदासिणो.
4. F' अत्तहोदिभ्रं.
6. G स्थित्वा स्थित्वा for स्थित्वा
स्वप्ने."
9. E F विस्रब्धं.
11. F' अथ्थ. —•DE आप्पा ; F' अत्ता.
12. B मन्दहाभाए- F' सिविणसमा
गमो.
13. AC D E F आसि.
14. B C D भट्टा अ देहि &c.