पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
॥ चतुर्थोङ्कः ॥
राजा। सखे कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य ।
कार्येन निर्वर्णयितुं च रूपम्
इच्छन्ति तत्पूर्वसमागतानाम् ।
न च प्रियेष्वायतलोचनानां
समग्रपातीनि विलोचनानि ॥ ८ ॥
मालविका । १का एसा ईसिपरिउत्तवअणा भट्टिणा सिणि
ध्धाए दिट्टीए णिझ्झाइअदि ।
बकुलावलिका । २णं इअं पस्सगदा इरावदी ।
मालविका । ३सहि अदख्खिणो विअ मे पडिभाइ । जो सव्वं
देवीजणं उझ्झिअ एदाए मुहे बध्धलख्खो ।
बकुलावलिका । आत्मगतम् । ४चित्तगदं भट्टारं परमथ्थं गेण्हिअ
असूएदि । होदु । कीलिस्सं दाव एदाए । प्रकाशम् । भट्टिणो
वल्लहा एसा ।
मालविका । तदो किं दाणिं अत्ताणं आआसेमि । सामूयं परा
वर्तते ।

१. कैषेषपरिवृत्तवदना भर्त्रा स्निग्धया दृष्ट्या निध्यायते ।
२. नन्वियं पार्श्वगतेरावती ।
३. सखि अदक्षिण इव मे प्रतिभाति । यः सर्वे वेवीजनमुज्झित्वैतस्या मुखे ::बद्धलक्षः।
४. चित्रगतं भर्तारं परमार्थं गृहीत्वासूयति । भवतु । क्रीडिष्यामि तावदेतया । ::भर्तृवल्लभैषा ।
५. ततः किमिदानीमात्मानमायासयामि ।

2. A B C D E हि for y« च."
4. A B D E प्रियेप्या'.
6. D ईसीपरि°-B D दिठ्ठीए.
8. A C पस्संगदा--D E इरावई
9 A B C अदखिणो–E पइभाइ.
10. B उझ्झीभ
11. F ' परणठथ्थदो. —A C गिण्हिअ.
12. A C असूभदि-B C कीलिसं.
14. B दाणीं.