सामग्री पर जाएँ

पृष्ठम्:मालविकाग्निमित्रम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
॥ चतुर्थोङ्कः ॥
प्रतीहारी । १अह इं ।
राजा
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुनापि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥ ४ ॥

। प्रविश्य विदूषकः ।

विदूषकः । २जेदु जेदु भवं । सिध्धाइं मे मङ्गलकज्जाइं ।
राजा । जयसेने त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी । ३जं देवो आणवेदि ।
[ इति निष्कान्ता ।
राजा । वयस्य शुद्धा माधविका । न किंचिद्विचारितमनया ।
विदूषक । ४देवीएं अङ्गलीअमुदं देख्खिअ कहं विआरीआदि ।
राजा । न खलु मुद्रमधिकृत्य ब्रवीमि । तयोर्बद्वयोः किंनिमित्तोयं मोक्षः। किं देव्याः परिजनमतिक्रम्य भवान्संदिष्ट
इत्येवमनया प्रष्टव्यम् ।

१. अथ किम् ।
२. जयतु जयतु भवान् । सिद्धानि मे मङ्गलकार्याणि ।
३. यद्देव आज्ञापयति ।
४. देव्या अङ्गुलीयमुद्रां दृष्ट्वा कथं विचार्यते ।

6. A D E F do not repeat" बेदु”
-A C D E कम्माइ.
10. F reads thus : वयस्य क्षुद्रमाधवि-
कया न किंचिद्विचारितमनया ।
11. B अञ्जलि°.-B देख्खीअ; F' द-
ख्खिभ.