पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
॥ मालविकाग्निमित्रम् ॥
इरावती । १बेउलावालिए साहु तुए उपक्कन्तं । मालविए
तुमं दाव अज्जउत्तं सफलपथ्थणं करेहि ।
उभे । २पसीददु भट्टिणी । का अम्हे भट्टिणो प्पणअप्पसङ्गस्स।
[ निष्कान्ते ।
ईरावती । ३अहो अविस्ससणीआ पुरुसा । मए ख्खु अत्तणो 5
वञ्चणाव अणं पमाणीकरिअ वाहजणगीदरत्ताए हरिणीए विअ असङ्किताए एदं ण विण्णादं ।
विदूषकः । जनान्तिकम् ४पडिओजेहि किंपि । कम्मगहीदेण कुम्भिलएण संधिच्छेआस्सख्खकोम्हिनत्ति एथ्थ वतव्वं होदि ।
राजा । सुन्दरि मालविकायां न मे कश्चिदर्थः। मया त्वं
चिरायसीति कथंचिदात्मा विनोदितः।

१. बकुलावलिके साधु वयोपक्रान्तम् । मालविके त्वं तावदार्यपुत्रं सफलप्रार्थनं कुरु ।
२. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयप्रसङ्गस्य ।
३. अहो अविश्वसनीयाः पुरुषाः। मया खल्वात्मनो वञ्चनावचन प्रमाणीकृत्य व्याधजनगीतरक्तया हरिण्येवाशङ्कितयेदं न विज्ञातम् ।
४. प्रतियोजय किमपि । कर्मगृहीतेन कुम्भिलकेन संधिच्छेदशिक्षकोस्मीत्यत्र वक्तव्यं
भवति।

1. B तए for “ तुए.
2. D E F' अ-अ°.
3. A D E पण अ°- ' पणभपडिगहस्स
5. E परिसा.
6. A E पमाणी?.--B ०करीभ
7. F omits “असङकिताए."
8. F पडियोजेहि किंबि.-A B C D
E गहिदेण.-f .takes कम्म
with पडियोजेहि किंवि, and
explains its translation कर्म
by “मृषोद्यमित्यर्थः”. But this
is hardly possible. कम्मग
हीदेण = by (a thief) caught
in the act.
12. B कथं कथंचित्.