पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
॥ मालविकाग्निमित्रम् ॥
निपुणिका । १भट्टिणी देख्ख किं पवुत्तं अज्जगोदमेण ।
इरावती । २कहं स बम्हबन्धू अण्णहा जीविस्सदि ।
बकुलावलिका । ३अज्ज देवीए एसा णिओअं अणुचिठ्ठइ ।
एदस्सिं अदिक्कमे परवदी इअं । पसीददु भट्टा । आत्मना
सममेनां प्रणिपातयति ।
राजा । यद्येवमनपराधः । भद्रे उत्तिष्ठ । हस्तेन ग्रृहीत्वोत्थापयति ।
विदूषकः । ४जुज्जइ । देवी एथ्थ माणइदव्वा ।
राजा
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामस्य वामोरु ॥ १७ ॥
मालविका । लज्जते ।
इरावती । सासूयम् । ५अम्हो णवणीदकप्पहिअओ अज्जउत्तो ।

१.भट्टिनि पश्य किं प्रवत्तमार्यगौतमेन ।
२.कथं स ब्रह्मबन्धुरन्यथा जीविष्यति ।
३.आर्य देव्या एषा नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवतीयम् । प्रसीदतु भर्ता ।
४. युज्यते । देव्यत्र मानयितव्या ।
५.अहो नवनीतकल्पहृदय आर्यपुत्रः ।

1. E F भट्टिणि-F दख्ख.-D E
अ-अ.-B पउत्तं-F पजुत्तं,
translated by प्रयुक्तम्.
2. B जीविसदि ; DE जविस्सिदि.
3. D E F अ-अ‌-B अणुचिठ्ठई.
7. F अभ्य for "एभ्य".
10. F वामोरु वामस्य.
11. C लज्जति.
12. Our MSS. omit सासूयम्.We
according to G.-F omits
कप्प.