पृष्ठम्:मालविकाग्निमित्रम्.djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
॥ मालविकाग्निमित्रम् ॥
मालविका । सहर्षम् । १किं भट्टा ।
बकुलावलिका । सस्मितम् । २ण दाव भट्टा । एसो असोअसाहावलम्बी पल्लवगुच्छो । ओदंसेहि णं ।
विदूषकः। ३अवि सुदं भवदा ।
राजा । पर्याप्तमेतावता कामिनाम् ।
अनादरोत्कण्ठितयोः प्रसिध्यता
समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं
शरीरनाशोपि समानुरागयोः ॥ १८ ॥
मालविका । रचितपल्लवावतंसा सलोलमशोकताडनाय पादं प्रहिणोति ।
राजा । वयस्य पश्य ।
आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ । १६॥
बकुलावलिका । ४हला णथ्थि दे दोसो अगुणो अअं असोओ
जइ कुसुमसमुभ्भेदमन्थरो भवे । जो ईरिसं चलणसक्कारं लहेइ ।

१. किं भर्ता ।
२. न तावद्भर्ता । एषोशोकशाखावलम्बी पल्लवगुच्छः। अवतंसयैनम् ।
३. अपि श्रुतं भवता ।
४. हला नास्ति ते दोषः अगुणोयमशोको यदि कुसुमसमुद्भेदमन्थरो भवेत् । य
ईदृशं चरणसत्कारं लभते ।

4. E omits भवि."
9. A F समानरागयोः
10. Our MSS अशोकाय we ac-
cording to G.
11. F omits पश्य.
15. A c जई.-F मन्धरो.
16. A B C D E लहेयि.