पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- " ऊर्ध्वमुखः, जागरूका जागरणशीलः ॥ १६ ॥ भूतज-अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः। लक्षणम् उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरत्तम् ॥१०॥ भौतिकोन्मादलक्षणमाह-अमत्त्येति । वाक् च विक्रमश्च वीर्यश्च चेष्टा च वाग्विक्रमवीर्यचेष्टाः, श्रमाः अमनुष्याः, वागविक्रमवीर्यचेष्टा यस्य स तथा । ज्ञानं शास्त्रज्ञान, विज्ञान-तदर्थावबोधः ॥ १७ ॥ देवग्रहजुष्टलक्षणम्- संतुएः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो.ह्यवितथसंस्कृतप्रभाषी। तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ॥१८॥ देवजुष्टमाह-सन्तुष्ट इत्यादि। अतिदिव्यमाल्यगन्धः अत्यर्थं दिव्य माल्यमिव गन्धो यस्येति विग्रहः। निस्तन्द्रः-निद्रारहितः, ब्रह्मण्यो- विप्रानुरक्तः ॥१८॥ असुरजुष्टलक्षणम्- संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः । सन्तुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः ॥१९॥ देवशत्रुजुष्टमाह-संस्वेदीत्यादि। जिलाक्षो जिझे कुटिले भक्षिणी नेत्रे यस्य स तथा ॥ १९ ॥ गन्धर्वजुष्टलक्षणम्- हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ॥२०॥ गन्धर्वाविष्टमाह-हृष्टेत्यादि । पुलिनं = तोयसत्यक्तं तट, 'तोयोज्झित तु पुलिनमित्यमरः । वनान्तरं वनमध्यम् ,स्वाचारप्रशस्यचरित्रः ॥२०॥ यक्षग्रहजुष्टलक्षणम्- ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं ददामि कस्म यो यक्षग्रहपरिपीडितो मनुष्यः॥२१॥ यक्षाविष्टमाह-ताम्राक्षेत्यादि । ताम्राक्षो-लोहितनयनः, प्रियं तनु रक्त च वा धर्तुं शीलं यस्य स तथा । द्रुतगतिः-शीघाटनः ॥ २१ ॥ पितृग्रहजुष्टलक्षणम्- प्रेतानां स दिशति संस्तरेषु पिण्डा शान्तात्मा जलमपि चापसव्यवस्नः । मांसेप्सुस्सिलगुढपायसामिकामस्तनको भवति पितृग्रहाभिजुष्टः ॥२५॥ ।