पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्मादनिदानम् २०॥ पितृग्रहजुष्टमाह-प्रेतानामित्यादि । प्रेताना-मृतपितृणा, संस्तरेषुकु- शपत्रादिरचितास्तरणेषु, अपसव्यवस्नः दक्षिणस्कन्धधृतोत्तरीयः, अपसव्य दक्षिणमित्यमरः । तक्ता-पितृभक्तः ॥ २२ ॥ सर्पग्रहजुष्टलक्षणम्- यस्तो प्रसरति सर्पवत्कदा चित् सकण्यौ विलिहति जिह्वया तथैव । क्रोधालुर्गुडमधुदुग्धपायसेप्सुझतव्यो भवति भुजङ्गमेन जुष्टः ॥ २३ ॥ नागाविष्टमाह-यस्त्वित्यादि । भुजङ्गमेन जुटा सर्पग्रहाकान्तः, उर्यो पृथिव्यां, सर्पवत्-उरसेति भावः । सक्कण्यौ ओष्ठप्रान्तो, 'प्रान्तावोष्ठस्य सृक्कणीत्यमरः ॥ २३॥ राक्षसजुष्टलक्षणम्- मांसासग्विविधसुराविकारलिप्सुनिर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः । क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति स राक्षसर्गृहीतः॥२४॥ राक्षसाविष्टमाह-मांसेत्यादि । निर्लज्जो नित्रपः, क्रोधालु:-कोपनः, विपुलबलः-महाविक्रमशाली, निशाविहारी-रात्रिश्चरः, शौचद्वि-पवित्र- ताद्वेषी ॥ २४॥ पिशाचजुष्टलक्षणम्- उद्धस्तः कृशपरुषोऽचिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिकोलः । बहाशी विजनवनान्सरोपसेवी व्याचेष्टन् प्रमति रुदन् पिशाचजुष्टः ॥२६॥ पिशाचाविष्टमाह-उद्धस्त इत्यादि । उद्धस्तः ऊर्ध्वबाहुः, अचिरप्र. लापी-किञ्चित्प्रलपनस्वभावः, अतिलोल-निखिलानपानादिषु लोलुपः, बह्वाशी बहुमक्षकः, विजनवनान्तरोपसवी-विजन शून्यस्थान, वनान्तरं =वनमध्यम् , व्याचेष्टन् - विरुद्धमाचरन् ॥ २५ ॥ असाध्यभूतोन्मादिलक्षणम्- स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रालुः पतति च कम्पते च यो हि। यश्वाद्विद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे। असाध्यमाह-स्थूलाक्ष इत्यादि । स्थूलाक्षा-स्थूले विवृते अक्षिणी यस्य स तथा, दुतमटनः शीघ्रगमनस्वभावः,अद्रिः पर्वतः, द्विरदो हस्ती, नगो- वृक्षः, विध्युतः पतितः, सन् , तथा त्रयोदशाब्दे-त्रयोदशे वर्षे (उम्मा- दस्वभावात् ) अपरमप्यमाध्यलक्षणमन्यत्र वर्णितं यथा-मेट्रप्रवृत्तः क्ष- . -