पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- स्वल्पसत्त्वगुणस्याल्पमनसो बा, मला:- वातादयः, बुद्धेनिवासं हृदये प्रदूष्य मनोवहानि स्रोतांसि, अधिष्ठाय अधिश्रित्य, नरस्य, बेतो- मनः, आशु झटिति, प्रमोहयन्ति ॥ ५॥ सामान्यरूप-धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च । अबद्धवाक्त्वं हृदयं च शून्य सामान्यमुन्मादगदस्य लिङ्गम्६ सामान्यरूपमाह-धीविभ्रम इत्यादि धीविभ्रमः = प्रान्तज्ञानत्वम् , सत्वपरिप्लव:-चित्तवाञ्चल्यम् , अधीरता-कातरता, अबद्धवाक्त्वम् अप्रासङ्गिकवचनत्वं, सामान्य लिङ्गम् । लिङ्गयते बोध्यतेऽनेनेति लिङ्ग तेन पूर्व- रूपरूपयोरुभयोरपि संग्रहः ॥६॥ वातज- रूझाल्पशीतान्नविरेकधातुक्षयोपवासरनिलोऽतिबृद्धः । हेतुः-चिन्ताऽऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृति चाप्युपहन्ति शीघ्रम् ७ वातज- अस्थानहास्यस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि । रूपम्पारुष्यकाश्यारुणवर्णताश्च जीणें बलं चानिलजस्य रूपम् ॥ ८॥ वातजमाह-रूमेत्यादि । रूक्षेत्यादिकारणरतिबद्धः, अनिलो वायुः, चिन्ताऽऽदिदुष्ट हृदयं प्रदूष्य = दूषयित्वा, बुद्धि-शानं, स्मृति-स्मरण- शक्ति च, उपहन्ति = विनाशयति, अस्थानहास्य-कारणमनपेक्ष्य हासः, अङ्गविक्षेपणम्-हस्तपादादिविरुद्धचेष्टा, जीर्ण आहारे बल व्याधेर्भवतीति।।५-८॥ पित्तज-अजीर्णकट्वम्लविदायशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् । हेतुः-उन्मादमत्युगमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात्॥९॥ पित्तज- अमर्षसंरम्भविनमभावाः सन्तर्जनातिवणौष्ण्यरोषाः। रूपम्-प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम१० पित्तजमाह-अजीणेत्यादि । अजीर्णादिहेतुभिः, चितम्-एकसमुदितम् , उदीर्णवेग प्रचण्डवेगम् , अत्युग्रं यथा स्यात्तथोन्मादयति, अनात्मकस्य-अ. जितात्मनः, पूर्ववत्- अनिलजवत्, चिन्तानिवासं हृदयं प्रदूष्येति । अमर्ष- संरम्भविनमभावा: अमर्षोऽसहिष्णुता, संरम्भः प्रारभटी, विनग्नभावः- दिगम्बरत्वम् , अतिवर्ण पलायनम् , रोषः क्रोधः, प्रच्छाये शीतान्नजलयोः, अभिलाषा-उत्सुकता, पीता भाः दीप्तिः शरीरस्य ॥ ९-१० ॥ कफज-सम्पूरणमन्दविचेष्टितस्य सोमा कफो मर्मणि सम्प्रदुष्टः । हेतु:-बुद्धि स्मृति चाप्युपहत्य चित्तं प्रमोहयन् सम्जनयेद्विकारम्॥११॥ >