पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्मादनिदानम् १९-२०॥ ८९ तदसाध्यरूप-सर्व एव च बाः स्युः शीतगात्रस्य देहिनः ॥ ८॥ इति श्रीमाधवकरविरचिते-माधवनिदाने एकोनविंशं दाहनिदानं समासम् ॥ १९ ॥ असाध्यत्वमाह-मामिधातेत्यादि । मर्माभिधातजः मर्माणि हृदया- दीनि तेषामभिघाताजनितः, स सप्तमो दाहोऽसाध्यः । मषजः प्रथमः, रक्तजो. द्वितीयः, पैत्तिकस्तृतीयः, तृष्णाऽवरोधजश्चतुर्थः, असृजः पूर्णकोष्ठस्येति पञ्चमः, धातुक्षयजः षष्ठः, मर्माभिधातजः सप्तम इति । क्षतजमपि के चिदा. चक्षते तेऽन्यथा गणयन्ति ॥८॥ इति सुधायां दाहनिदानम् । " अथ विंशमुन्माद-निदानम् ॥ २० ॥ उन्मादनि- मयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः । रुक्तिः- मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ॥१॥ मदात्यये-उन्मादमिव चापरमित्यादिवर्णनाद् मदात्ययानन्तरमुन्मादारम्भः । निरुक्तिमाह-मदयन्तीत्यादि । यस्माद् , उन्मार्ग=विमार्गम् , भागता दोषाः, मदयन्ति-मनोविभ्रम विदधति, तस्मान्मानसोऽयं व्याधिरुन्माद इति कीति- त: भपितः॥१॥ तत्संख्या-एकैकशः सर्वशश्च दोषैरत्यर्थमूञ्छितैः । मानसेन च दुःखेन स च पञ्चविधो मतः ॥२॥ मदरोग:-विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् । स चाप्रवृद्धस्तरुणो मदसंज्ञा बिभर्ति च ॥३॥ कारण-विरुवदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिधातो विषमाश्च चेष्टाः॥४॥ सामान्यनिदानमाह-विरुदत्यादि । विरुद्ध-क्षीरमत्स्यादि, दुष्ट = वि. षसम्पृक्तम् , अन्न, देवादीनां प्रधर्षण-पराभवः, भयहर्षपूर्व: भयं हों वा, उभयं वा पूर्व यस्य स तथा । विषमाश्चेष्टाः अङ्गन्यासादयः ॥ ४ ॥ सम्प्राप्ति:-तरल्पसत्वस्य मलाः प्रदुष्टा बुद्धनिवासं हृदयं प्रदूष्य । स्त्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ॥९॥ सम्प्राप्तिमाह-सैरिस्यादि । तैः-पूर्वोक्तैनिंदानः, अल्पसत्वस्य- .