पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सुधोपेते माधवनिदाने- लक्षणम्- सर्वात्मके भवति सर्वविकारसंपत् तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ॥४॥ वातिकमाह-वातेनेति । कृष्णानि नयनाननमूत्रवासि यस्य स तथा, गर्दभवद् , भिन्न विकृतं, खरं-निष्टुर, च स्वरं वदति । पैत्तिकमाह-पित्ते. नेति । पीतानि नयनाननमूत्रवासि यस्य स तथा। दाहसमन्वितेन गलेन च व्यात् । श्लैष्मिकमाह-श्रूयादिति । कफेन, सततम् = अविरतं, कफेन रुद्धः कण्ठो यस्य स तथा । स्वल्पं = मन्द, शनैः = विलम्वितं, वदति। दि. वा= दिने, विशेषाद् - आधिक्येन, वदतीति भावः। सान्निपातिकमाह-स- त्मिक इति । सर्वात्मके = त्रिदोषजे, सर्वविकारसम्पत् = निखिलवातादि स्वरभेदलिङ्गयोगः, तत्रापि स्वरभेदमृषयोऽसाध्यमाहुः ॥ ३-४ ॥ क्षतजमेदोज-धूप्येत वाक् क्षयकृत क्षयमाप्नुयाच्च योर्लक्षणम्-वागेष चापि हतवाक् परिवर्जनीयः॥ अन्तर्गतस्वरमलक्ष्यपदं चिरण मेदोऽन्वयावदति दिग्धगलस्तृषाऽऽसः ॥ ५ ॥ क्षयजमाह-धूप्येतेति । क्षयकृते = धातुक्षयजायमाने, स्वरभेदे, वाक- वाणी, धूप्येत सधूमेव निर्गच्छन्ती वेदनयाऽनुभूयते, पण स्वरभेदो यदा, हत- वाक्-वचनाक्षमो, भवति तदा परिवर्जनीयो वैद्यै रिति शेषः। मेदोजमाह- अन्तर्गतेति । अन्तर्गतः स्वरो यस्मिस्तदन्तर्गतस्वर, क्रियाविशेषणमिदम् । अलक्ष्यपदम् - अविष्पष्टाक्षर, वदति, दिग्धगल:- कफेन मैदसा वा लिप्त- गलः, तृषार्तश्च मेदोरुद्धस्रोतस्त्वात्। भवतीति शेषः ॥५॥ असाध्यः-क्षीणस्य वृद्धस्य कृशस्य वाऽपिचिरोत्थितो यश्च'सहोपजातः। मेदस्विनः सर्वसमुनवश्च स्वरामयो यो न स सिद्धिमेति ॥६॥ इति श्रीमाधवकरविरचिते माधवनिदाने स्वरभेद-मिदान समाप्तम् ॥१३॥ असाध्यत्वमाह-क्षीणस्येति । क्षीणस्य-गलितमांसस्य, वृतुल्य गतव. यसः, कृशस्य -दुर्बलस्यः, चिरोत्थितः बहुकालीनः, सहोपजात:- जन्म- नैवोत्पन्नः, मेदस्विनः = प्रतिस्थूलस्य, सर्वसमुद्भवश्व-त्रिदोषजश्व, यः स्वरा. मयः सः, न सिद्धिमेतिम्न प्रशाम्यति ॥ ६ ॥ इति सुधायां स्वरभेदनिदानम् ॥ -